________________
धम
संग्रहणि
॥१८॥
भूत्वा भवन् भावो, हेतुभ्यो जायते यथा। भूत्वापि न भवस्त द्वत् , हेतुभ्यो न भवत्ययम् ॥२॥” इति ॥ स्यादेतत्, घटादिनिवृत्तिस्तुच्छरूपा तत्कथं तत्र कारकव्यापारसंभवः ?, भवनधर्मिण्येव तत्संभवोपपत्तेः, न च तस्य भवनधर्मताऽस्ति, तुच्छरूपतया सकलशक्तिविकलत्वादत आह-'नयेत्यादि' न च सा-घटादिनिवृत्तिरेकान्तेनाभावस्तुच्छरूपः । कुत? इत्याह-वस्तुधर्मत्वात् । एतच प्रागेवाभिहितम् , 'नो तस्सभावओ भेओ एगंतेणाभावों' इत्यनेन ग्रन्थेन ॥ ४६४ ॥ अत्रैव विपक्षे वाधामाह
अह सा ण वत्थुधम्मो ण तई ता तस्स घडणिवित्तीए ।
जह वत्तमाणसमए सगडस्स निवित्तिसुन्नं वा ॥ ४६५ ॥ अथ सा-घटादिनिवृत्तिन वस्तुधर्मोऽभ्युपगम्यते किंत्वेकान्ततुच्छरूपा, तत्राह-'न तई ता तस्सत्ति' न 'ता'ततः 'तई त्ति' सका घटादिनिवृत्तिस्तस्य-घटादेः संबन्धिनी प्राप्नोति, वस्त्ववस्तुनोः संबन्धाभावात् , तादात्म्यस्य तदुत्पत्तेर्वा वस्तुद्वयाधिष्ठानत्वात् । अत्रैव दृष्टान्तमाह-'घडेत्यादि' यथा घटनिवृत्ती सत्यां वर्तमानसमये-विवक्षितसमये शकटस्य निवृत्तिन घटसंबन्धिनी भवति, तादात्म्यादेः संवन्धस्याभावात् , तद्वदियमपि न तत्संबन्धिनी स्यात् । मा भूत्को दोष इति चेत् तदयुक्तम् , एवं सति घटस्य नाशो विनष्टो घट इति प्रतिप्राणिप्रसिद्धतादात्म्यसंबन्धनिबन्धन
RRC-RECECONOMOCRACK
॥१८६॥
Jain Education
For Private & Personel Use Only
www.jainelibrary.org