________________
Jain Education In
'विशेषणं विना यस्मान्न तुल्यानां विशिष्टते' ति वचनात् । न च विशेषकोऽभ्युपगम्यते, तत्त्वसंख्यानियमव्याघातप्रसज्ञात् । अत एवाह -- 'अन्नम्मि य चेयणे असंतम्मि' अन्यस्मिंश्च 'चेतने' जीवलक्षणे विशेषके, 'असति' अविद्यमाने, 'तत्कार्ये' भूतकार्ये, चैतन्यं 'विषमगत्या' जीवद्देवदत्तशरीरादौ भावेन घटादौ चाभावेनेत्यर्थः, कथं युक्तं ?, नैव कथंचन, विशेषकमन्तरेण हि सर्वत्राविशेषेण स्यान्नवा कचिदपीति भावः ॥ ९२ ॥ अत्र पर आह
जह संठाणविसेसो ओहेणं कारणाण तं अस्थि ।
तो जुत्तो तभेदो ण य चेतन्नं कहंचिदवि ॥ ९३ ॥
यथा संस्थानविशेषः, इदमुक्तं भवति - यथा भूतानां चित्रस्वभावतया घटपटादीनां भूतकार्यत्वाविशेषेऽपि संस्थानविशेषः प्रतिव्यक्ति भिन्नो भवति, तथा चैतन्यमपि विषमगत्या भविष्यतीति । अत्रोत्तरमाह - 'ओहेणं कारणाण तं अस्थि' 'कारणानां' मृत्पिण्डतन्त्यादीनाम् 'ओघेन' सामान्येन, प्रतिव्यक्ति भिन्नं 'तत्' संस्थानमस्ति, तथा - विधाविशिष्टशेर्ध्वाद्याकारोपलम्भात् । ततः कार्याणामपि घटपटादीनां तथाविशिष्टदेशकालकर्त्रादिसामग्री भावेन, तद्भेदः संस्थानभेदः, प्रतिव्यक्ति भिन्नो युक्त एव । न च वाच्यं - चैतन्यमप्येवं भविष्यतीति । यत आह- 'न य चेयन्नं कहंचिदवि' न च चैतन्यं 'कथंचिदपि' केनापि प्रकारेण संस्थानवद्विपमगतिकं युक्तं, प्रत्येकं पृथिव्यादिभूतेषु सामा
For Private & Personal Use Only
www.jainelibrary.org