________________
धर्म
॥ ५० ॥
Jain Education In
सो सज्झो ण उ सिद्धो भणियमिणं तह य उवरिमो वोच्छं । पडिभणियं जं भणियं पवक्खमाणे भणिस्सामो ॥ ९१ ॥
स घंटे चैतन्याभावः कायाकारादिरूपपरिणतिविरहनिबन्धनोऽद्यापि साध्यो न तु सिद्धः, न चासिद्धेन बाधास्ति । कथमसिद्ध इति चेत् ? भणितमिदम्- 'अह तहिपरिणामो नत्थि न जीवोत्ति' इत्यादिना ग्रन्थेन, उपरि च 'संतंपि किन्न साहइ' इत्यादिना वक्ष्यामः । तस्मान्न भूतफलत्वादित्यप्रयोजको हेतुः । स्यादेतत्-चित्रो भूतानां स्वभावः, ततो जीवद्देवदत्तशरीरादौ भूतफलवच्चैतन्यं भविष्यति न घटादौ न च खभावे पर्यनुयोगोऽस्ति, “अग्निर्दहति नाकाशं, कोऽत्र पर्यनुयुज्यते" इति । एतच प्रागेवोक्तं 'चित्तो भूयसहावो' इति । अत एवाह - 'पडिभणितं ' प्रतिभणितं प्रतिभणनं - निराकरणं यद्भणितं, तत् 'प्रवक्ष्यमाणे' अनन्तरमभिधास्यमाने 'भणिष्यामः' प्रतिविधास्यामः, वक्ष्यमाणग्रन्थेन निराकरिष्याम इत्यर्थः ॥ ९१ ॥ तन्निराकरणमेवाह
भूताणं अविसेसे अण्णंमि य चेतणे असंतम्मि | तकज्जे चेयन्नं विसमगतीए कहं जुत्तं ? ॥ ९२ ॥
'भूतानां' पृथिव्यादिलक्षणानाम् 'अविशेषे' विशेषाभावे सति, विशेषाभावश्च विशेषकमन्तरेण विशेषस्यानुपपत्तेः,'
For Private & Personal Use Only
संग्रहणिः
।। ५० ।।
www.jainelibrary.org