________________
संग्रहणिः
धर्म- I/न्येन तस्य विषमगत्याऽनुपलम्भनात् । तस्मात् सर्वत्राप्यविशेषेण तस्य भावोऽभावो वा युक्तो, न चैतदस्तीति यत्-ि
चिदेतत् ॥ ९३ ॥ अपि च-जीवदेवदत्तशरीरादौ धम्मिणि चैतन्यशून्यत्वं साध्यं, ततस्तस्य प्रतिषेधे कृते सति ॥५१॥ हेतुर्विपक्षगमनेन दुष्टः स्यात् , स च तत्प्रतिषेधो दुस्साधः, तथा चाह
भूतफलत्तं चेयण्णसुण्णया नेति एत्थ किं माणं ? ।
णो पञ्चक्खं जम्हा सदस्थविसयं तयं सिद्धं ॥ ९४ ॥ भूतफलत्वेऽपि जीवद्देवदत्तशरीरादेर्न चेतनाशून्यतेत्यत्र 'किं मानं' ? किं प्रमाणं, प्रत्यक्षमनुमानं वा ?, न खलु प्रमाणमन्तरेणाभिप्रेतार्थसिद्धिर्भवति । तत्र न तावत्प्रत्यक्षं, तस्य सन्निहितसद्भतयोग्यार्थविषयत्वेन प्रतिषेधे प्रवृत्त्ययोगात्। एतदेवाह-"नो पञ्चक्खमित्यादि" न च प्रत्यक्षमनन्तरोक्त प्रतिषेधे प्रमाणं, कुत इत्याह-यस्मात् 'तकत्' प्रत्यक्षं 'सदर्थविषयं विद्यमानार्थगोचरमविगानेन सर्वेषां सिद्धम् ॥१४॥ मा भूत्प्रत्यक्षम् , अनुमानं भविष्यतीति चेदत आह
अणुमाणंपि ण जुत्तं विसिट्टलिंगादिविरहतो लोए।
चे आगारोत्ति तयं ण कारणं कजवं णियमा ॥ ९५ ॥ अनुमानमपि प्रमाणं न युक्तम् , कुत इत्याह-'विसिलिंगाइविरहतो लोए' विशिष्टं लिङ्गं विवक्षितसाध्यार्था
ANDROORKERS
CMCROCRACROCOCACOCALCRESCRACHNA
॥५१॥
Jain Education in
For Private Personel Use Only
www.jainelibrary.org