________________
न्यथानुपपन्नं, आदिशब्दादन्यथानुपपन्नत्वनिवन्धनसंबन्धविशेषपरिग्रहः, तस्य विरहाद्-अभावात् 'लोके' जगति, लोक इत्यनेन च एतदाख्यायते-नास्माकं प्रतिभाविरहमात्रेण विशिष्टलिङ्गादिविरहः, किंतु वास्तव एव, भूतफलत्वस्य विपक्षाद् व्यापकानुपलब्ध्या व्यावर्तमानस्य चेतनाशून्यत्वेन प्रतिबद्धत्वात् । अत्र परस्याभिप्रायमाह-'चे आगारोत्ति। तयं 'तकदू' अनुमानमाकारो भविष्यतीति चेत् तथाहि-यत्र यत्राकारः कायरूपस्तत्र तत्र चैतन्यं, यथा खस्मिन् , तथाऽऽकारो जीवद्देवदत्तशरीरेऽस्तीति आकारो हि चैतन्यस्य कारणं, ततो युक्तस्तद्भावे चैतन्यस्य भावः, अनुमानहेतुत्वाचाकारोऽनुमानमित्युक्तः । अत्राह-'न कारणं कज्जवं नियमा' आकारो हि चैतन्यस्य कारणमिष्यते, कारणं च नावश्यं कार्यवद्भवति, प्रतिबन्धवैकल्यसंभवात् । तदुक्तम्-"नावश्यं कारणानि तद्वन्ति भवन्तीति", तथा च कथ-17 माकाराचैतन्यस्यानुमानम् । अपि च-नैवासावाकारः कारणमपि चैतन्यस्य, तत्कारणत्वे मृतावस्थायामपि तत्सद्भावतश्चैतन्यस्य भावप्रसङ्गात् ॥ ९५ ॥ तथा चाह
संतंपि किं ण साहइ ? विगलत्तातो त्ति किं कयं तमिह ? ।
पाणापाणाभावा ण जीवऽभावेण को हेऊ ? ॥ ९६ ॥ यद्यसावाकारश्चैतन्यस्य कारणमिप्यते, तर्हि तत्कारणं सदपि मृतशरीरे 'किं' कस्माद् न 'साधयति' निवर्तयति
Jain Education in
For Private & Personel Use Only
EMw.jainelibrary.org