________________
धर्म-1 चैतन्यलक्षणं कार्यम् , कारणे हि कार्यजननं प्रति कारणान्तरनिरपेक्षे सति अवश्यं कार्येण भवितव्यं, अन्यथा तत्तस्य संग्रहणिः.
कारणमेव न स्यात् , न च भवति आकारसद्भावेऽपि मृतशरीरे चैतन्यं, ततो नैवासौ कारणम् , अकारणत्वाच न चैत-12 ॥५२॥
न्यस्य गमक इति । स्यादेतत् , न कारणान्तरनिरपेक्षः केवल एवाकारश्चैतन्यस्य कारणमिष्यते, येन मृतशरीरे तदकुर्वनसावकारणं स्यात् , किंतु कारणान्तरसापेक्षो, मृतशरीरे चासौ कारणान्तरविकलस्ततो न साधयति तत्र चैतन्यरूपं निजकार्यमिति । एतदेवाह-वियलत्ताओति' विकलत्वात्-कारणान्तरहीनत्वात् असावाकारो मृतशरीरे चैतन्यरूपं निजकार्य न करोति, न तु निर्मूलत एवाकारणत्वात् । आचार्यः पृच्छति-किंकृतं तत् वैकल्यम् 'इह' व्यभिचाराश्रये मृतशरीरे कस्य कारणान्तरस्यापेक्षणीयस्याभावात् आकारस्य तत्र विकलतेतियावत् । पर आह-प्राणापानयोरभावात् । आचार्य आह-न जीवाभावनेत्यत्र को हेतुरिति, प्राणापानाभावात्तत्र विकलत्वं न जीवाभावादित्यत्र 'को हेतुः' ? किन्नियामकं? नैव किंचिनियामकमस्तीत्यर्थः। तस्मात् जीवेनैव सहान्वयव्यतिरेकदर्शनात् जीवस्यैव कार्य चैतन्यपरिणामविवर्ती नाकारस्य, ततो नैवासौ कारणम् , अकारणत्वाच न ततश्चैतन्यानुमानं, नापि तदभा
॥५२॥ वनिवन्धनो घटादिषु चैतन्याभावः । एवं च सति यत् प्राक् प्रतिज्ञातं 'तह य उवरिमो वोच्छमिति' तदिदानी समर्थितं द्रष्टव्यमिति ॥ ९६ ॥ किंच
ROCKS
1962
Jain Education
For Private & Personel Use Only
w.jainelibrary.org