________________
धर्म
॥२०८॥
Jain Education
परिणामो पुण तो पावपवित्तीय बंधहेउ त्ति । नत्थेत्थ विसंवादो य णाणं कारणं एत्थ ॥ ५३७ ॥
परिणामः पुनस्तीत्रः पापप्रवृत्ती- पापहेतुकार्यप्रवृत्तौ भवन् बन्धहेतुर्भवतीति, अत्र नास्ति विसंवादः, अस्माभिरपि तस्यैवमभ्युपगमात् । न चात्र - पापहेतुकार्यप्रवृत्त्यादौ कारणं ज्ञानं येन पूर्वाभिहितदोपप्रसङ्गः स्यात् ।। ५३७ ॥ कुत इत्याह
अन्नाणिणोवि जम्हा दीसति एयं किलिट्टभावस्स ।
णाणिस्स पवित्तीय वि तत्तो तु ण तारिसो भावो ॥ ५३८ ॥
यस्मादज्ञानिनोऽपि क्लिष्टभावस्य सत एतत् पापहेतुकार्यप्रवृत्त्यादि दृश्यते, तस्मान्न ज्ञानमेतस्य कारणं, तदभावेऽपि भावात्, यथा धूमस्य शक्रमूर्द्धेति । यदप्युक्तम् — 'ज्ञान्यपि पापं करोति तस्मादज्ञानमेव श्रेयो, ज्ञाने सत्यपि | विशेषाभावादिति' । तदप्ययुक्तम्, ज्ञाननिबन्धनस्य विशेषस्य दर्शनात् । तथा चाह - ' णाणिस्सेत्यादि ' ज्ञानिनः पाप१ शक्रमूर्द्धा – वल्मीकम् ।
For Private & Personal Use Only
संग्रहणिः
॥२०८॥
X www.jainelibrary.org