SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणि: ॥१५३॥ KAR तुल्लत्ति अप्पमाणं गिहीतगहणादिदोसाओ ॥ ३५१ ॥ ननु यदुक्तम्-एकान्तेनाङ्गलेरन्यत्वे सति इयमपि तद्विषया वुद्धिर्विभिद्यतेति तदस्त्येव,यतोऽ(वि)कल्पिका बुद्धिस्तद्विपया एकान्तेन भिन्नैवोपजायते, सैव च नः प्रमाणं, यस्त्वेष इयमङ्गुलिस्तुल्येति विकल्पः प्रवर्तते सोऽप्रमाणं, गृहीतग्रहणादिदोषात् , आदिशब्दात् निर्विषयत्वपरिग्रहः । ततः कथमुच्यते ?-तदेवाङ्गुलिद्रव्यमवस्थान्तरेऽपीति ॥३५१ ॥ अत्राचार्यः प्राह न हु ता गिहीतगाही तस्साभावा तदाऽविसयतो उ। अज्झारोवेणवि णो गेण्हइ तं तम्मि तदभावा ॥ ३५२ ॥ हु' शब्दोऽवधारणे । नहु-नैव तावदसौ विकल्पो गृहीतग्राही येनास्याऽप्रामाण्यं स्यात् । कुत इत्याह-तदाविकल्पकाले तस्य-निर्विकल्पगृहीतवस्तुनः क्षणिकत्वेनाभावात् , तथा अविपयतश्च-विकल्पं प्रति तस्याविषयभावतश्च, न हि विकल्पस्य बाह्यं वस्तु विषयोऽभ्युपगम्यते । स्यादेतत् , अतद्रूपेऽपि वप्रतिभासे तेन विकल्पेन खलक्षणरूपमविकल्पकज्ञानपरिच्छिन्नमध्यारोप्यते, ततो गृहीतग्राही न परमार्थत इत्यत आह-अध्यारोपेणापि न तं-निर्विकल्पकज्ञानगृहीतमर्थ गृह्णाति ।कुत ? इत्याह-तस्मिन-विकल्पज्ञाने सति तदभावात्' तस्य-निर्विकल्पकज्ञानगृहीत MERCELCASA Jain Education in For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy