SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ स्यार्थस्याभावात् । एतदुक्तं भवति-यदि वाह्योऽर्थस्तेन दृष्टः स्यात् तदा खात्मनि तदध्यारोपः क्रियेत, अदृष्टस्याध्यारोपयितुमशक्यत्वात् , अन्यथा पष्टस्कन्धस्यापि अध्यारोपप्रसक्तेः, यावता न बाह्योऽर्थस्तेन दृष्टः, तत्काले तस्याभावात्, तदविषयत्वाच, तत्कथं तेन खात्मनि तदध्यारोपः क्रियत इति । अथोच्येत-मा भूत्तदानीं वाह्योऽर्थस्तथापि तमर्थ निर्विकल्पकज्ञानप्रतिविम्बितं दृष्ट्वा खात्मन्यध्यारोपयिष्यति, ततश्चैवमपि तस्य गृहीतग्राहित्वमेवेति ॥ ३५२ ॥ तदप्ययुक्तम् , यत आह अत्तुल्लं अविगप्पं न य दिटुं भावतो जओ तंपि । ता कहमज्झारोवो नियमेणऽन्नस्स किं नेवं ? ॥ ३५३ ॥ यतो-यस्मात्तदपि-अविकल्पकं ज्ञानमतुल्यम्-अतुल्यार्थविषयम् , अनेन परस्याध्यारोपनिमित्तं दर्शयति । परो हि निर्विकल्पकारूढोऽर्थोऽसाधारणोऽर्थक्रियासमर्थो विकल्पेन दृष्ट्वा खात्मन्यध्यारोप्यत इति मन्यते, नच-नैव भावतःपरमार्थेन दृष्टं, तदनन्तरं तस्योत्पादात् , 'ता' तस्मात्कथं नियमेन तस्यैव विवक्षितस्यार्थस्याविकल्पज्ञानद्वारेणाप्यध्यारोपो युक्तो ?, नैवासौ युक्त इतिभावः, तत्काले तस्याभावतस्तेन तस्यादर्शनात् , यावता अन्यस्यापि विकल्पाननुभूतस्यार्थस्य एवम्-उक्तनीत्या किं नाध्यारोपो भवति ?, विशेषाभावात् ॥ ३५३ ॥ पर आह 950-5205 ॐ4% Jain Education in For Private & Personel Use Only Colww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy