________________
Jain Education In
रोदकत्वं हिमविलयजन्यस्य, कलुषोदकत्वं वृष्टिजन्यस्य, आदिशब्दात्स्वभावस्थत्वं सहजस्येति परिगृह्यते, तेष्वेवंभूतेष्वप्रसिद्धेषु तद्वतेषु धर्मेषु, इतिशब्द हेत्वर्थे भिन्नक्रमश्च युक्तशब्दानन्तरं द्रष्टव्यः, ततश्च यस्मादयं नदीपूरः कलुषोदकत्वेन युक्तो दृश्यते, न चैवंविधकलुषोदकत्वं सामुद्रस्य हिमविलयजन्यस्य सहजस्य वा नदीपूरस्य भवति, तस्मादयं नदीपूर: पारिशेष्यात् वृष्टिजन्य इति प्रत्ययो भवति, किंतु प्रसिद्धेष्वेव धर्म्मधर्मिषु न च एष प्रसिद्धधर्मम्मिलक्षणो 'विधिः' प्रकारोऽस्ति आत्मसाधके माने - प्रमाणे, आत्मन एवाप्रसिद्धत्वात् तस्मान्न प्रमाणबलतस्तस्यात्मनः सिद्धिः । ततः कथमुच्यते ? त्वमपि मतिमान् मुधा खिद्यसे इति । आचार्य आह - 'एस वामोहो' 'एप' अनन्तरोक्तो व्यामोहो- व्यामोहवशात् यदुक्तं तदपि व्यामोह इत्युक्तं, कार्ये कारणोपचारात्, यथेदं मे पौराणं कर्मेति ॥ ९९-१००-१०१ ॥ कथमेष व्यामोह इत्यत आह
जम्हाण तस्स धम्मो चेतण्णं एतसाहणे जतिमो । किंतु अणुहवसिद्धमिदं धम्माइ य जं ततो णियमा ॥ १०२ ॥ अणुरूवेणं कजं इगस्स धम्मादिणत्ति सोय बला । भूतादत्थंतरमो तो आता तस्सभावो वा ॥ १०३ ॥
For Private & Personal Use Only
www.jainelibrary.org