SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ संग्रहणिः ॥५४॥ BOSSASSALMCITY यस्मान 'तस्य' आत्मनो धर्मश्चैतन्यमिति 'एतत्साधने' एतत्साधननिमित्तं यतामहे, किं त्वेतावदेव ब्रूमो यदुत'यत्' यस्माद् 'इदं' चैतन्यमनुभवसिद्धम्-अविगानेन प्रतिप्राणिखसंवेदनप्रमाणसिद्धं, 'धादि च' धादिखरूपं च । तत्र धर्मः सदा परतत्रतयोपलभ्यमानत्वात् , आदिशब्दात्कार्य च तत्तव्यक्षेत्रादिसामग्रीसापेक्षेण जीवद्रव्येण तस्य चैतन्यपरिणामस्य जन्यमानत्वात् । ततस्तस्मानियमादवश्यतया अनुरूपेण धादिना धम्मिंणा, आदिशब्दात कारणेन चानुरूपेण, 'अस्य' चैतन्यस्य 'कार्य' प्रयोजनम् । अनुरूपत्वाभावे धर्मधर्मिभावस्य कार्यकारणभावस्य च सर्वथाऽनुपपद्यमानत्वात् । स चानुरूपो धादिश्चैतन्यस्य 'बलात्' सामर्थ्येन तदन्यथानुपपत्तिलक्षणेन, भूतादर्थान्तरभूतो, भूतानां अत्यन्तवैलक्षण्येन तद्धमित्वाद्यनुपपत्तेः । 'तोत्ति' तस्मात्पारिशेष्यादस्त्यात्मेति प्रतिपत्तव्यम् ।। अथवा 'तस्सभावो वेति' तस्य-चैतन्यस्याभावो वा प्रतिपद्यतां, धर्मस्य कार्यस्य च यथाक्रममनुरूपं धमिणं कारणं चान्तरेणानुपपद्यमानत्वात् । न चैतद्युक्तं, चैतन्यस्य प्रतिप्राण्यविगानेन स्वसंवेदनसिद्धस्यापह्रोतुमशक्यत्वात् ॥ १०२-१०३ ॥ अत्र पर आह कोऽयमणुरूवगाहो ? अणुमादीहिं जतो घडादीणं । दिट्ठो भावोऽह मती तओऽवि अणुरूव एवत्ति ॥ १०४ ॥ CARRORERALAG ॥५४॥ Jain Education in For Private & Personel Use Only S ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy