SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Jain E धर्म. १० ननु कोऽयमनन्तरोक्तोऽनुरूपग्रहः ?, नैवासावनुरूपग्रहो युक्त इत्यभिप्रायः । किमित्यत आह- 'यतो' यस्मादत्यन्तविलक्षणेभ्योऽप्यणुद्यणुकादिभ्यो घटादीनां भावो दृष्टः, तस्मात् यत् यतो भवत् दृश्यते तत्तस्य कार्यमितरच कारणम वसेयम्, तच्चानुरूपमननुरूपं वा भवतु, न कश्चिद्दोष इति । आचार्य आह- 'तओवि अणुरुव एवत्ति, सकोऽपि घटादीनां भावः स्वारम्भकाणुव्यणुकादीनामनुरूप एव । इतिशब्दो वाक्यपरिसमाप्तौ । एवकारः परपरिकल्पितैकान्तानुरूप्याभावव्यवच्छेदपरो न तु सर्वथा वैरूप्यव्यवच्छेदकः, तस्यापि कथंचिदभ्युपगमात् एवकारस्यापि च सर्वत्र मूढमत्याशङ्कितव्यवच्छेदफलत्वात् ॥ १०४ ॥ कथं पुनः सकोऽपि घटादीनां भावोऽणुद्यणुकादीनामनुरूप इत्यतो हेतुमाह मुत्तत्तादिअणुगमा अणुरूवावगमतो य इतरोऽवि । अणुमवावित्तीहि य सति सत्ते तम्मि किमजुत्तं ? ॥ १०५ ॥ मूर्त्तत्वस्यादिशब्दात् पार्थिवत्वादेश्चानुगमात् । तथाहि - दृश्यन्त एवाणुकाद्यनुगता मूर्त्तत्वादयो धर्म्मा घटादिष्वप्यनुवर्त्तमाना इति । मा भूत्केपांचित् प्रागुक्तैवकारश्रवणात् विपर्यासवुद्धिर्यथा - सर्वथा घटादीनां भावोऽणु - णुकादीनामनुरूप एवेत्यत आह- 'अणुरूवावगमओ य इयरोऽवित्ति' अनुरूपापगमतश्च उपलक्षणत्वात् द्यणुका - For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy