SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ ५५ ॥ दिरूपापगमतश्च 'इतरोऽपि' अनुगमोऽपि, घटादिषु द्रष्टव्यः । एतदुक्तं भवति - मूर्त्तत्वपार्थिवत्वादिधर्म्मापेक्षया घटादिषु स्वकारणस्यानुगमोऽस्ति, अणुव्यणुकादिरूपापगमतश्च इतरोऽपि ततो न केवलमेवानुरूप्यं घटादिषु द्रष्टव्यमिति । अत्र पर: खावकाशमाशङ्कमान आह- 'अणुगमेत्यादि' नन्वेवमिहापि अनुगमव्यावृत्तिभ्यां विशिष्ट सत्त्वे सति चैतन्यस्य तस्मिंश्चैतन्ये भूतकार्यतयेष्यमाणे किमयुक्तं स्यात् ?, नैव किंचिदिति भावः । तथाहि - यथा घटादिषु मूर्त्तत्वपार्थिवत्वादिधर्म्मापेक्षया अनुगमोऽस्ति अणुव्यणुकादिरूपता परित्यागतश्चाननुगमोऽपीति कथंचिदानुरूप्यं, तथा चैतन्येऽपि सत्त्वस्यान्वयादनुगमो जडरूपतापरित्यागाच्चाननुगमोऽपीति कथंचिदानुरूप्यमस्त्येवेति कथं चैतन्यं भूतानामकार्यमिति ॥ १०५ ॥ अत्रोत्तरमाह - सवेसिं सामन्नं जं संतं ता ण नियमहेउत्ति । घड पड-रहमादीणं मुत्तत्तादिव लोगमि ॥ १०६ ॥ इह नाम तदपेक्षया आनुरूप्यमनानुरूप्यं चानुसर्त्तव्यं यत् हेतुफलभावनियमहेतुर्भवति, न च सत्त्वं भूतका - यतः चैतन्यस्य नियमहेतुः । कुत इत्याह-यत् यस्माल्लोके सर्वेषां भावानां सामान्यं साधारणं सत्त्वम्, अन्यथा तदभावे भावानामभावत्वप्रसङ्गात् । 'ता' तस्मान्न तत् हेतुफलभावस्य नियमहेतुर्भवति । अत्र दृष्टान्तमाह - घटपटरथादीनां मूर्तत्वं न पार्थिवपरमाण्वादिकार्यत्वे नियमहेतः, तस्यावादिष्वपि साधारणत्वात्, तद्वत्सत्त्वमपि साधा Jain Education International For Private & Personal Use Only संग्रहणिः ।। ५५ ।। www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy