SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ रणत्वान्न चैतन्यस्य भूतकार्यत्वे नियमहेतुरितिभावः ॥ १०६॥ स्यादेतत् यदि मूर्तत्वादिकं घटादीनां पार्थिवपर-1 माण्वादिकार्यत्वे न नियमहेतुस्तर्हि किमन्यत्स्यादित्यत आह पुढवीतत्ताणुगमो घेडमादीणमिह णियमणे हेतू । इय अणुरूवाणुगमे चतण्णस्सापसिद्धी उ ॥ १०७॥ पृथिवीतत्त्वं पृथिवीत्वं तस्यानुगमोऽन्वयो घटादीनां इह लोके नियमहेतुः, पार्थिवपरमाण्वादिकार्यत्वस्येति | |शेषः, पृथिवीत्वस्यान्यत्रासंभवात् । इतिरेवमर्थे । एवं पृथिवीत्वेनेव घटादीनां पृथिव्यादित्वेन भूतकार्यस्य चैतन्यस्यापि यदा 'अणुरूवत्ति' भावप्रधानत्वान्निर्देशस्य आनुरूप्यस्यानुगमपरिग्रहः क्रियते तर्हि तस्मिन् सति घटादिष्विव जीवदेवदत्तशरीरेऽपि चैतन्यस्य अप्रसिद्धिरेव, अभाव एव भवेत् । तुशब्द एवकारार्थः। पृथिव्यादित्वस्य काठिन्याबोधादिखभावाविनाभावित्वात् ॥ १०७॥ पाणापाणनिमित्तं सिय तं णो तस्स मुत्तभावातो। तवुड्डीऍ खयातो विवज्जतातो य मरणम्मि ॥ १०८ ॥ स्यादेतत्, न पार्थिवपरमाण्वादिजन्यं चैतन्यं येन पार्थिवत्वाद्यनुगमनेन घटादिष्विव जीवद्देवदत्तशरीरादावपि Jain Education inte For Private & Personel Use Only T ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy