________________
+
धर्म
संग्रहणिः,
॥५६॥
चैतन्यस्याभावः प्रसज्येत, किंतु प्राणापाननिमित्तं, ततो न कश्चिद्घोष इति । तदेतत्प्रतिषेधति-नोत्ति' यदेतदुक्तं तन्न । कुत इत्याह-तस्य प्राणापानस्योष्णस्पर्शादिमत्तया मूर्तत्वात् । न च मूर्तस्य कार्यममूर्त भवति यथा घटादि, अन्यथा विवक्षितकारणधर्माननुगमने तस्य तत्कार्यत्वाभावप्रसङ्गात् , अमूर्त च चैतन्यम् , तन्न प्राणापानोपादाननिमित्तं युक्तम् । इतश्च न चैतन्यं तदुपादाननिमित्तं युक्तं, यत आह-'तब्बुडीए' इत्यादि । इह तत्तदुपादाननिमित्तं शक्यं वक्तुं, यत् यन्महत्त्वे महत् यदल्पत्वे चाल्पं, यथा मृत्पिण्डोपादानो घटः तन्महत्त्वे महान् तदल्पत्वे चाल्पः, न चैवं प्राणापानापेक्षया चैतन्यम् । कुत इत्याह-मरणे मरणसमये विपर्ययात् । चशब्दः पूर्वोक्तमूर्तभावादित्यपेक्षया समुच्चयार्थः । विपर्ययमेवाह-तद्वृद्धौ क्षयात्, मरणसमये तस्य प्राणापानस्य प्राणश्चापानश्च प्राणापानं तस्य वृद्धौ सत्यां क्षयात् विषयेण विषयिणो लक्षणात् क्षयदर्शनात् चैतन्यस्य, तन्न प्राणापानोपादाननिमित्तं चैतन्यम् ॥१०८॥ तदेवं सप्रपञ्चं चैतन्यस्य भूतकार्यत्वादि प्रतिषिध्य पारिशेष्यादात्मानं च प्रसाध्य सांप्रतं संक्षिप्तरुचिसत्त्वानाम् | अनुग्रहाय सकलमेवामुं प्रकरणा) संजिघृक्षरिदमाह
ण य पुढवादिसहावो(व) कजं वा सति अभावतो तंति । अचंताणुवलद्धी कह माणदुगप्पसंगम्मि ? ॥ १०९ ॥
॥५६॥
Jain Education in
For Private Personal Use Only
R
w.jainelibrary.org