SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ 'न च' नैव पृथिव्यादिखभावं तत् चैतन्यं, नापि कार्य प्रत्यासन्नत्वात् पृथिव्यादीनामित्यपेक्षते । अत्र हेतुमाह'सदा सर्वदा मृतावस्थायामपि उपलक्षणत्वादेतस्य सर्वत्र घटादिष्वपि अभावात् । यदि हि पृथिव्यादिखभावं तत्कार्य वा चैतन्यं भवेत् ततः सर्वदा सर्वत्र चाविशेषेण भवेत् , न च भवति, तन्न चैतन्यं पृथिव्यादिखभावं नापि तत्कार्यमिति । स्यादेतत् , यत्पृथिव्यादिखभावं न भवति नापि तत्कार्य तन्नास्त्येव, यथा खरविषाणम् , चैतन्यमपि यदि पृथिव्यादिखभावं तत्कार्य वा न भवति तर्हि तत्त्वतो नास्त्येवेत्यत आह-'अचंतेत्यादि' कथं प्रत्यक्षानुमानलक्षणप्रमाणद्विकप्रसङ्गे सति चैतन्यस्यात्यन्तानुपलब्धिराख्यायते ?, नैवासावाख्यातुमुचितेति भावः। तथाहि-खशरी| रगतं तावचैतन्यं खसंवेदनप्रत्यक्षेण प्रतीयते, परशरीरगतं तु विशिष्टचेष्टान्यथानुपपत्त्याऽनुमानतः, न चेत्थं प्रतीयमानस्य चैतन्यस्याभावः शक्यते वक्तुं, मा प्रापत् पृथिव्यादीनामपि भूतानामत्यन्ताभावप्रसङ्ग इति ॥१०९॥ यदपि । प्रागुक्तं-'मद्याङ्गेभ्यो मदशक्तिरिवे'ति, तदप्यसमीचीनम् , मदशक्तिदृष्टान्तस्य साधनविकलत्वात् । तथा चाह णहि मधुणो मदसत्ती भणितमिणं हेतुफलविभागे य। जं णियमणंति तम्हा वभिचारो वयणमेत्तं तु ॥ ११०॥ न हि यस्मात् मद्याङ्गेभ्यो जायमानस्य 'मधुनो' मद्यस्य मदशक्तिरुपजायते किं तु जीवस्य, इदं च प्राक् विस्त For Private Personel Use Only Join Education A 6-056 w .jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy