________________
धर्म
| संग्रहणिः .
॥५७॥
**********TRASS
रतरकेण भणितम् , ततो मद्याङ्गेभ्यो मदशक्तिवदिति दृष्टान्तः साधनविकलः। केवलमद्याङ्गसमुदायमात्रान्मदशक्तेरभावात् । तस्मादिदं चैतन्यलक्षणं कार्यमनुभवसिद्धत्वादप्रतिक्षेपार्हमन्यथानुपपत्त्या खानुरूपं कारणमात्मन उपस्थापयति, तच्च खानुरूपं कारणं भूतभ्योऽर्थान्तरभूतं न तु भूतान्येव, अत्यन्तवैलक्षण्यात् , चैतन्यस्य सर्वदा सर्वत्र च भावप्रसङ्गाच, ततः पारिशेष्यादात्मैव कारणमिति स्थितम् । न च वाच्यमण्वादिभ्यो घटादेर्भावदर्शनात् नावश्यं कार्यानुरूपं कारणमन्वेषणीयमिति । यत आह–'हेउफलविभागे य जं नियमणंति' हेतुः-कारणं फलं-कार्य तयोविभागो-विभजनम् अयमेवास्य हेतुरिदमेव चास्य फलमित्येवंरूपं तस्मिन् यन्नियम्यतेऽनेनेति नियमनं-नियमहेतुः मूर्तत्वपार्थिवत्वादिधर्मानुगमलक्षणस्तदपि प्रागेव भणितम् । इतिशब्दः पूरणार्थः, तस्मादण्वादिजन्यघटादिना व्यभिचारो वचनमात्रम्, तत्रापि मूर्तत्वादिधर्मानुगमभावत आनुरूप्यस्य भावात् । अन्यथा नियमहेत्वभावेन कार्यकारणव्यवस्थानुपपत्तेः । अतः स्थितमेतत्-खानुरूपनिमित्तं चैतन्यं, तच खानुरूपं निमित्तमात्मेति । प्रयोगश्चात्र-खानुरूपान्वयिनिमित्तं चैतन्यं, कार्यत्वात् , घटवत्, इह नात्यन्तासत उत्पादोऽसत्त्वाविशेषेण खरविषाणस्याप्युत्पत्तिप्रसङ्गात् । तस्य विवक्षितकारणस्य विवक्षितकार्यजननखभावत्वात्तस्यैवोत्पत्तिर्नान्यस्य ततो न कश्चिद्दोष इति चेत्, न, तदा तस्यात्यन्तासत्त्वेनावधिभावायोगस्तस्य तजननखभा|वतेति कल्पनानुपपत्तेः(श्च)। न हि अत्यन्तासतः अवधिर्भवति, असतो विशेषणत्वायोगात् । अतः कथंचित्सत एवो
S S
॥ ५७ ॥
Jain Education Interne
For Private Personal use only
Khw.jainelibrary.org