SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Jain Education Int त्पादः । तथा च सति कार्यत्वं हेतोस्तथाभावित्वेन व्याप्यते । तदुक्तम्- "न तथाभाविनं हेतुमन्तरेणोपजायत” इति । खानुरूपान्वयिनिमित्तानभ्युपगमे चात्यन्तासत उत्पादाभ्युपगमप्रसङ्गः । ततो विपक्षाद्यापक विरुद्धोपलब्ध्या व्यावर्त्तमानं कार्यत्वं खानुरूपान्वयिनिमित्तत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः ॥ ११० ॥ स्यादेतत् साध्यधर्म| विशेषविपर्ययसाधनादयं हेतुर्विरुद्धः, तथाहि - मूर्त्तखानुरूपान्वयिनिमित्तं चैतन्यं कार्यत्वात् घटवदित्यत आहविसेसविरुद्धोऽवि अप्पडिबंधातो वाहणातो य । मुत्तत्तादीण तहा संसारिणि अब्भुवगमा य ॥ १११ ॥ न विशेषस्य - साध्यधर्म्मसंबन्धिनोऽमूर्त्तत्वलक्षणस्य विपर्ययसाधनादयं कार्यत्वादिति हेतुर्विरुद्धः । अपि च न केवलमसिद्धोऽनैकान्तिको वा नेत्यपिशब्दार्थः । हेतुमाह - 'अप्रतिबन्धात् ' कार्यत्वलक्षणहेतोर्मूर्त्तत्वेन सहाप्रतिबन्धात् । न च प्रतिबन्धमन्तरेण हेतुः सम्यग्धेतुर्विरुद्धो वा भवति, कार्यादीनां हि हेतूनां खसाध्ये प्रतिवन्धात्, यद्गमकत्वं तत्सम्यग्धेतुत्वमुच्यते, साध्यधर्म्मविशेषादिविपर्यये च स्वभावप्रतिवन्धाद्विपर्यासनं विरुद्धत्वम् । तदुक्तमन्यैरपि - 'प्रतिबन्धपूर्वकं हि गमकत्वं तच्च हेतुविरुद्धयोरविशिष्टं, तथा साध्यविपरीतस्वभावप्रति For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy