SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ संग्रहणिः, धर्म- बन्धाद्विपर्यासनं विरुद्धत्वमिति' । अत्रैव हेत्वन्तरं समुचिचीषुराह-बाधनातश्च आत्मनो मूर्त्तत्वस्यामूर्त्तत्वप्रतीत्या बाधनात् । चः समुच्चये । तथा हि-यद्यात्मा मूतः स्यात्ततस्तत्कार्य चैतन्यममूर्त न भवेत् ?, न हि मूर्तकार्यममूर्त ॥५८॥ भवत् दृष्टम् , अमूर्त च चैतन्यं रूपादिविरहात्, तथाप्रतीतेः, ततश्चैतन्यलक्षणकार्यामूर्तत्वान्यथानुपपत्त्या ke आत्मनोऽमूर्त्तत्वमङ्गीकर्तव्यं न मूर्त्तत्वम् , तथा च मूर्त्तत्वस्य बाधनान हेतोविशेषविरुद्धता, तल्लक्षणायोगात् । 'विरुद्धोऽसति बाधने' इति हि तल्लक्षणमाहुस्तज्ज्ञाः, अन्यथाऽतिप्रसङ्गात्, पाक्यः शब्दः कृतकत्वात् घटवदित्यादेरपि वक्तुं शक्यत्वात् । अपि च, नैवास्माकमनेकान्तवादिनामयं हेतुर्विरुद्धोऽपि सन् क्षितिमावहति, कर्मणा सह लोलीभावेनावस्थानतः कथंचिदात्मनो मूर्तत्वस्याप्यभ्युपगमात् । यद्वक्ष्यति-"अहवाऽणेगंतोऽयं संसारी सबहा अमुत्तत्ति । जमणाइकम्मसंतइपरिणामावन्नरूवो सो" इति । एतदेवाह-'मुत्तत्तेत्यादि । तथेति समाधानान्तरसमुच्चये । मूर्तत्वादीनामादिशब्दाचक्षुरिन्द्रियग्राह्यत्वादिपरिग्रहः, औदारिकादिशरीरेणापि सह कथंचिदभेदाभ्युपगमात् संसारिणि आत्मनि अभ्युपगमान्न विशेषविरुद्धो हेतुः, इष्टत्वादिति भावः॥११॥ इह ये चैतन्याभिव्यक्तिवादिनस्ते चैतन्यं धर्मत्वेन प्रतिपद्यन्ते चैतन्यमभिव्यज्यते न तूत्पाद्यत इति, भूतानि च धीति । तत्रायमर्थः प्रागे वापास्तो-'जइ ताव मयं धम्मो चेयन्नं कह न अस्थि तो आया । अनेणऽणुरूवेणं इमस्स जं धम्मिणा कज' मित्यादादिना ग्रन्थेन । तत्र पुनरपि तन्मतमाशङ्कमान आह भावस्थानतः कामावन्नरूवा दिपरिग्रह, CAMERCASSMS ROCTORSCIENCECAUSACARROCCC Jain Education in For Private & Personel Use Only oww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy