SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Jain Education अह अणुरुवो धम्म सुतचेतण्णस्स माइबुद्धी तु । णो तवतिरेगेणं तस्स सुते पावइ अभावो ॥ ११२ ॥ अथ स्यान्मतं परस्य-यदि चैतन्यस्यानुरूपेण धर्मिणा कार्य तर्हि सुतचैतन्यस्य 'मातृवुद्धिरेव' मातृचैतन्यमेव तुशब्द एवकारार्थः, अनुरूपो धम्म भविष्यति न त्वन्यः, ततश्च नैवमपि तवात्मसिद्धिरुपपद्यत इति भावः । अत्रोत्तरमाह - 'नो तवइ' इत्यादि यदेतदुक्तं तन्न, असंगतत्वात् । कथमित्याह - यस्मादेवं परिकल्प्यमाने 'तव्यतिरेकेण ' मातृचैतन्यव्यतिरेकेण तस्याभावः प्राप्नोति, धर्मिणमन्तरेण धर्माणामसंभवात्, अन्यथा स्वतन्त्रतया तेषामपि धर्मित्व प्राप्तेः ॥ ११२ ॥ अत्रैव दूषणान्तरमुपादित्सुराह ण हि धम्मंतरवत्ती दिट्ठा धम्माणमेत्थ लोगम्मि । तदभावपसंगातो न धम्मरहितो जतो धम्मी ॥ ११३ ॥ यदि मातृचैतन्यं सुतलक्षणे धर्मिणि नोपपद्यते किंतु मातृचैतन्यलक्षण एव 'हि' यस्मात्, न खलु खधम्मिणमन्तरेणान्यस्मिन् धर्म्यन्तरे धर्माणां वृत्तिरत्र लोके दृष्टा, तथाप्रतीत्यभावात् । विपक्षे वाघामाह - तदभावप्रसङ्गादिति, For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy