SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ धर्म- यदि हि धर्माणां धर्म्यन्तरे वृत्तिरभ्युपगम्येत तर्हि तस्य धमिणोऽभावप्रसङ्गो भवेत् , खभावस्थापि धर्मत्वात् , संग्रहणिः. तस्य च धर्म्यन्तरे वर्तमानत्वाभ्युपगमेन धम्मिणो निःखभावतापत्तेः। एतदेव भावयति-'न धम्मरहिओजओ धम्मी' 'यतो' यस्मान्न धम्मैः-सत्त्वज्ञेयत्वप्रमेयत्वादिभिः रहितो-वर्जितस्तादात्म्यसंबन्धप्रच्युतो धर्मी खरूपेणास्ति, ततो धर्म्यभावप्रसङ्गात् न धर्माणां धर्म्यन्तरे वृत्तिरभ्युपगन्तव्या । ततश्च सुतचैतन्यं चेन्मातृचैतन्यस्य धर्मस्तर्हि तस्य तत्र वृत्तिः स्यात् न सुते, तथा च सति प्रतीतिविरोधः, तन्न सुतचैतन्यस्य मातृचैतन्यमनुरूपो धर्मी किं त्वात्मैवेति स्थितम् ॥११३॥ अत्र चैतन्योत्पत्तिवादिनः प्राहुः-ये चैतन्याभिव्यक्तिवादिनस्तेषामेवायमनन्तरोक्तो दोषो, नास्माकं, कार्यकारणभावाभ्युपगमात् । तथाहि-सुतचैतन्यं कार्य मातृचैतन्यं च कारणं, तथा च को दोष इत्यत आह ण य तक्कजं पि इमं तस्सकाराणुवित्तभावातो। तनावम्मिऽवि कज्जे सति न य हेतूऽवि तदवत्थो ॥ ११४ ॥ न च 'इदं' सुतचैतन्यं तत्काय-मातृचैतन्यकार्यम् । कुत इत्याह-तत्संस्कारानुवृत्त्यभावात् तस्य-मातृचैतन्यस्य ॥ ५९॥ यः संस्कारो-वासना कालान्तरमाविस्मरणादिहेतुस्तस्यानुवृत्तिः-अनुगमनं तस्याभावात् , तत्संस्कारानुवृत्त्यभावेऽपि च तत्कार्यत्वाभ्युपगमेऽतिप्रसङ्गो, देवदत्तचैतन्यस्यापि यज्ञदत्तचैतन्यस्य कार्यतापत्तिप्रसक्तेरिति । दूषणान्तरमभिधित्सुरे ENGINCREGAONGS in Education and al For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy