SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Jain Education तदप्यभ्युपगम्याह - 'तब्भावम्मीत्यादि तद्भावेऽपि तत्कार्यत्वेऽपि इष्यमाणे, शब्दो यस्मादर्थे, यस्मान्न कार्ये सति घटादिलक्षणे हेतुरुपादानभूतो मृत्पिण्डादिलक्षणः, अपिचशब्द एवकारार्थी भिन्नक्रमश्च तदवस्थ एव भवति, किन्तु नियमतो विनाशमाविशति । मृत्पिण्डादिहेतूपमर्देनैव घटादिकार्यभावदर्शनात् । ततो यदि सुत| चैतन्यं मातृचैतन्यस्य कार्य भवेत् तर्हि सुतचैतन्ये सति मातृचैतन्यं न भवेत्, न च न भवति, तस्मान्न सुतचैतन्यं मातृचैतन्यस्य कार्यमिति ॥ ११४ ॥ अत्र परस्य मतमपाकर्तुमाशङ्कते - दीवा दीप्पत्ती ण य उभयं तत्थ दिट्टमह बुद्धी । जुतमिदमुवादाणं न हि दीवो अन्नदीवस्स ॥ ११५ ॥ स्यादियं बुद्धिः परस्य- दीपाद्दीपान्तरस्योत्पत्तिर्भवति, न च 'तत्र' दीपान्तरोत्पत्तौ 'उभयं' कार्यकारणभूतदीपयलक्षणमदृष्टम् उभयोरपि तत्र खरूपेणोपलभ्यमानत्वात् तद्वदिहापि मातृचैतन्यात्सुतचैतन्य स्योत्पत्तावपि न मातृचैतन्यस्याभावो भविष्यतीति । अत्राह - 'जुत्तमित्यादि' युक्तमिदं दीपाद्दीपान्तरस्य भवनं, न च तत्र कारण - भूतस्याभावो, यस्मान्न दीपोऽन्यदीपस्य - दीपान्तरस्योपादानं किं तु सहकारिकारणम्, उपादानकारणं हि दीपस्य वयदिपरमाणय एव, उपादानकारणोपमर्देन च कार्यं भवति न सहकारिकारणोपमर्देन, यथा मृत्पिण्डोपमर्देन घटो न 3 For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy