SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ ६० ॥ Jain Education चक्राद्युपमर्देन, न च सुतचैतन्यस्य मातृचैतन्यं सहकारिकारणमिष्यते किंतुपादानकारणम्, अतस्तदुपमर्द्देनैव तद्भवेत् ॥११५॥ यदि पुनस्तत्सहकारिकारणमिष्येत तत्मसिद्धिप्रसङ्गो यत आह माती चेतणं अणुवादाणं तयन्भुवगमे य । जदुवादाणं एयं तत्तो परलोगसिद्धि ति ॥ ११६ ॥ चशब्दों हेत्वर्थे । मकारस्त्वलाक्षणिकः । यस्मान्नैवादि - प्रथमं चैतन्यं सुतस्योपजायमानस्येति शेषः, 'अनुपादानम्' उपादानकारणविकलं युज्यते अतिप्रसङ्गात्, पञ्चमभूतस्यापि तद्वदुत्पत्तिप्रसक्तेः, 'तदभ्युपगमे च' तस्य - उपादानस्याभ्युपगमे च क्रियमाणे यदुपादानमेतत्सुतस्यापि चैतन्यम् 'तत' उपादानात् सुतप्रथम चैतन्यान्यथानुपपत्त्या सिद्धात् | परलोकस्य -सुरनारकत्वाद्यवस्थालक्षणस्य सिद्धि: - प्रसिद्धिः । तथाहि तदेवोपादानमुपादेयरूपतया परिणमते, तदप्युत्तरोत्तरभावेन, तथा च सततमनुच्छित्त्या एकोऽन्वयी सिद्धस्तत्सिद्धौ च तदवस्था देवनारकत्वादिलक्षणा परलो - कसंज्ञा सुतरां सिद्वैवेति । अपिच, यदि सुतचैतन्यं मातृचैतन्योपादानमिष्यते ततः सम्मूर्च्छितेषु यूकादिषु कृम्या - दिषु च मृतदेहे समुत्पद्यमानेषु न चैतन्यं भवेत्, तेषां मातुरभावात्, अथ तेषु चैतन्यमन्योपादानमिष्यते तर्हि सुतेऽपि चैतन्यमन्योपादानमस्तु ?, विशेषाभावात् । तच्चान्यदुपादानमर्थादात्मैव भूतानां तत्कारणतया प्रागेव For Private & Personal Use Only संग्रहणिः. ॥६०॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy