________________
ARRORSCOOK
प्रतिपिद्धत्वात् । तस्मान्न सुतचैतन्यं मातृचैतन्योपादानम् ॥ ११६ ॥ एतदेवाह
संमुच्छिमसब्भावा मतदेहेऽणेगसंभवातो य।
अन्नत्थनिमित्तत्ते ण पमाणं लोकवाधा य ॥ ११७ ॥ सम्मृच्छिमेषु यूकादिपु चैतन्यस्य सद्भावात् , मृतदेहे अनेकेषां कृम्यादीनां चैतन्यवतां संभवाच न मातृचैतन्योपादानं सुतचैतन्यम् , अन्यथा तेषु मातुरभावेन चैतन्यस्याभावः प्रसज्येत । किंच, 'अन्नत्यनिमित्तत्ते' इत्यादि, अन्य-12
स्मिन् मातृलक्षणे धम्मिणि स्थितं चैतन्यमन्यस्थं तन्निमित्तमुपादानं यस्य तदन्यस्थनिमित्तं तद्भावोऽन्यस्थनिमित्तत्वं हतस्मिन् सुतचैतन्यस्येष्यमाणे न प्रमाणम् , न ह्येवंविधार्थसाधकं किंचित्प्रत्यक्षादिकं प्रमाणमुपलभामहे, न
चापश्यन्त आत्मानं विप्रलभेमहि इति। अन्यञ्च-एवं परिकल्पयतो भवतो लोकबाधाप्यापद्यते, न ह्येवं लोके प्रतीछातिरस्ति यत्सुतचैतन्यं मातृचैतन्योपादानमिति यत्किंचिदेतत् ॥ ११७ ॥ तदेवं चैतन्यस्य धर्मादित्वान्यथानुपपत्त्या आत्मनोऽस्तित्वं प्रसाध्य सांप्रतं तत्प्रतिषेधायोगतः प्रतिपादयन्नाह
किंच पडिसेहगं किं पमाणमेयस्स? अह तु पच्चक्खं । लोगम्मि विजमाणत्थगाहगत्तेण तं सिद्धं ॥ ११८॥
AMARCBCC41-
धर्म. 19 Jain Education Inter
For Private & Personal Use Only
Kiww.jainelibrary.org