________________
Jain Education Inte
न च ततो- मुद्गरादिना जन्यमानात्कपालादेरेकान्तेनान्यो - भिन्नखरूपो निरुपाख्यः स - घटादिविनाशः । कुत ? इत्याह- ' तत्तो भावा' इत्यादि यस्मात्ततो भावात्कपालादेर्विनाशस्य खभावभेदे - तुच्छातुच्छरूपतया खरूपभेदे सति भेदाभेदादयो दोषाः प्राप्नुवन्ति, तथाहि--यदि भेदः ततः संबन्धाभावात् घटादिनिवृत्तिविशिष्टमिदं कपालादीति विशेषणविशेष्यभावानुपपत्तिः, अथाभेदस्तर्हि तदभिन्नत्वात्कपालादेरपि तुच्छरूपतापत्तिर्निवृत्तेर्वा कपालादिरूपता, तथा च सति घटादिनिवृत्तेरभावात् घटादिभावप्रसङ्गः । भेदाभेदपक्षस्तु विरोधात्रातत्वान्न युक्तः, कथंचित् युक्ततायां च एकान्ततुच्छरूपता हान्या परसिद्धान्तापत्तिरिति । अपि च, निरुपाख्यस्य सकलशक्तिविकलतया ज्ञेयत्वोत्पत्त्यादिखभावानुत्पत्तेः तज्ज्ञानोत्पत्त्याद्यभावप्रसङ्गः केन निवारयितुं पार्यते ? । तस्मान्नैकान्तेनोत्पाद्यात्कपालादेरन्यो निरुपाख्यो विनाशः, किन्तु तद्धर्म इति ॥ ४६१ ॥ अत्र पर आह
दमको भावो सुक्के व सरम्मि आतवादिसु य । तमदवादिपरिणती छायाई चैव विन्नेया ॥ ४६२ ॥
यद्युत्पाद्यमानभावान्तरधर्मरूप एव पूर्वभावस्याभावः ततो दीपे शुष्के वा सरसि आतपादिषु च आदिशब्दात् बुद्ध्यादिपरिग्रहः, को नु भावः ? - किंतु उत्पाद्यमानं भावान्तरं । यद्धर्मरूपत्वं तेषामभावस्य परिकल्प्येत, नैव किंचि -
For Private & Personal Use Only
www.jainelibrary.org