SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ धर्म॥१८५॥ Jain Education In दिति भावः । अत्राह - 'तमेत्यादि' तमोद्रव्यादिपरिणतिः छायादयश्च भावान्तररूपा विज्ञेयाः, तत्र दीपस्य भावान्तरं तमः, शुष्कसरसः शीतपवनः, आतपस्य छाया, बुद्धेश्च सामान्यं चैतन्यमात्रं विशिष्टं वा ज्ञानमित्यादि । तेन यदुच्यते भट्टांचेटेन -"यदि पूर्वभावविनिर्मुक्तं भावान्तरं प्रध्वंसाभावः ततो य एते अनुपजातविकारा दीपबुद्ध्यादयो ध्वंसन्ते तेषां कतरत् भावान्तरं व्यवस्थाप्येतेति” तत्प्रतिक्षिप्तमवसेयम्, प्रदीपानामनुपजातविकारत्वासिद्धेः, तमआदेर्विकारस्य दर्शितत्वात् । यत् पुनः " तेऽप्यव्यक्ततामात्मभावं च विकारमेव ध्वंसलक्षणमालम्बत इति चेत्, " इत्याशय "न, दीपादेर्भावरूपाव्यक्तताभावे प्रमाणाभावात्, यदि हि शक्तिरूपतापत्तिरव्यक्तिस्तदा शक्तेः कार्यदर्शनोन्नीयमानरूपत्वात् तदभावे कथं प्रदीपादयः शक्त्यात्मना व्यवस्थिताः कल्प्येरन् ?, अथोपलब्धियोग्यताविकलात्मतापत्तिरव्यक्तिरत्रापि तदात्मना व्यवस्थितौ नैव प्रमाणमस्ति न चाप्रमाणकमाद्रियन्ते वचो विपश्चितः, आत्मनश्वासत्त्वात्कथं तदभावो वृद्ध्यादीनां विकारः ?" इत्युच्यते तदनभ्युपगमादेव न नः क्षितिमावहति, नहि प्रदीपादीनामव्यक्तरूपं विकारमभिमन्यन्ते जैनाः येन प्राचीनं विकल्पयुगलमवतेतीर्येत, किंतु तमःप्रभृतिकं, तस्याध्यक्षतो दर्शनात्, तत्र चोक्तदोषानवकाश इति । यदपि चात्मनोऽसत्त्वमुक्तं तदप्यनुपपन्नं, पूर्वोत्तरज्ञानक्षणयोरेवानुगमस्यात्मशब्दवाच्यत्वात् तस्य च स्वसंवेदनप्रत्यक्षप्रमाणसिद्धतया अपाकर्तुमशक्यत्वात्, अन्यथा पूर्वज्ञानक्षणस्य विनाशे १ भट्टचनेति ख- पुस्तके | For Private & Personal Use Only संग्रहणि: ॥१८५॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy