________________
तस्य स्वरूपाविशेषात् , प्रथमक्षणवत्। तस्मानास्य क्रमेणार्थक्रियासंभवः, नापि यौगपद्येन, प्रथमक्षण एव सकलार्थक्रियानिष्पादने सति द्वितीये क्षणे करणस्याभावतोऽकारकत्वप्रसङ्गेन खभावभेदापत्तेः, तन्नाक्षणिके अर्थक्रियासामय 2 सत्त्वलक्षणं घटते । तदुक्तम्-“असन्तोऽक्षणिकास्तस्यां, क्रमाक्रमविरोधत" इति । क्षणिकं च वस्तु उत्पत्त्यनन्तरं निर्हेतुकविनाशे सति घटते नान्यथा, ततोऽर्थक्रियाभावान्यथानुपपत्तिः पूर्वोक्तखभावकल्पनानिबन्धनमित्यदोषः । अत्र चार्थक्रियाभावः प्रमाणनिबन्धनत्वात् प्रमाणमित्युक्तः, कारणे कार्योपचारात् । अत्राचार्य आह-'नहीत्यादि' नहि सा अर्थक्रिया भवत्पक्षे उत्पत्तिमन्तरेणान्या काचित्, किंतूत्पत्तिरेव । यदुक्तम् “भूतिर्येषां क्रिया सैव, कारक |सैव चोच्यत" इति । सा चोत्पत्तिनिरन्वयपक्षे-कारणस्य निरन्वयविनाशाभ्युपगमे उत्तरस्यात्यन्तासतःअसंगता, कुत ? इत्याह-अतिप्रसंगात् , खरविषाणस्याप्युत्पत्त्यापत्तेरिति ॥४६९ ॥ निर्हेतुकविनाशाभ्युपगमे परस्य खागमविरोधं दर्शयति
पाणाइवायविरई-सिक्खावतदेसणामुहा एवं ।
निविसयत्ता जणगो हिंसागारित्ति पंडिच्चं ! ॥ ४७० ॥ प्राणातिपातविरतिलक्षणशिक्षाप्रतदेशना एवं-खहेतुत एव नाशाभ्युपगमे सुधा-वृथा प्राप्नोति, निर्विषयत्वात् ,
Jain Education Intel
For Private & Personel Use Only
Talwww.jainelibrary.org