SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ धर्म. ९ Jain Education Int चैतन्यमनभिव्यक्तमस्तीति, अनभिव्यक्तेरेवानुपपद्यमानत्वात् । सा यावृतस्य भवति, न च चैतन्यस्य किंचिद्भूतव्य - तिरिक्तमावारकमस्ति " चत्वार्येव पृथिव्यादिलक्षणानि तत्त्वानीति" तत्त्वसंख्या नियमव्याघातप्रसङ्गात् । नाप्येतेपामेव भूतानामन्यतमेन केनचित् चैतन्यस्यावृतिरा ( रमि ) धीयते तेषां व्यञ्जकत्वप्रतिज्ञानात्, न च व्यञ्जक [त्व]मावारकं भवतीति । अत्रोच्येत - न भूतानामन्यतममावारकं किंत्वेषामेव विशिष्टपरिणामाभाव इति, तदप्ययुक्तम्, तस्य सकलशक्तिशून्यतया आवारकत्वानुपपत्तेः, अन्यथा आवरणक्रियानिष्पादनशक्तियुक्ततया कुड्यादिवत्तस्य भावता प्रसज्येत, तथा च सति तत्त्वान्तरस्यानभ्युपगमात्सामर्थ्यात्तस्य भूतानामन्यतमत्वात् व्यञ्जकत्वप्रसक्तिरिति । अपि च-यस्य परिणामस्याभाव आवारकः स तथाविधो विशिष्टः परिणामो भूतेभ्यो भिन्नो वा स्यात् अभिन्नो वा ?, यदि भिन्नस्ततस्तत्त्वसंख्यानियमव्याघातः, अथाभिन्नस्तर्हि भूतस्वरूपवत्तस्यापि सदाभावप्रसङ्गेन सर्वदा चैतन्या - भिव्यक्तिप्रसङ्गः । अथ परिणामत्वान्नासौ नित्यो भवितुमर्हति तेन तेनाऽऽकारेण परिणमनं हि परिणामः, किंतु यस्मिन् काले भवति तस्मिन् भूतस्वरूपाभेदेन भवति ततो न कश्चिद्दोष इति, तदयुक्तम्, कालानभ्युपगमे इत्थंभूतवचनप्रवृत्त्ययोगात्, लोकप्रसिद्धत्वादप्रतिक्षेपार्होऽसौ काल इति चेत्, तदेतदात्मन्यपि समानं, तस्यापि लोक - प्रसिद्धत्वात् पितृकर्म्माद्यन्यथाऽनुपपत्तेः । तदुक्तम् - "पितृकर्मादिसिद्धेश्च हन्त नात्माप्य लौकिकः” इति । तदेव|मावारकाभावादनभिव्यक्तचैतन्यानुपपत्तिरिति स्थितम् ॥ ८८ ॥ इतश्चानभिव्यक्त चैतन्यमनुपपन्नम्, यत आह For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy