SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ धमे पच्छावि अणुवलंभा देहावत्थाएँ अह उ उवलंभो। तेहिंतो सोऽसिद्धो कह ? भणियमिणं पबंधेण ॥ ८९ ॥ संग्रहणिः ॥४९॥ पश्चादप्यनुपलम्भात् तद्धि तत्रानभिव्यक्तमिति न शक्यं वक्तुं, यत् यत्र पश्चादप्युपलभ्यते यथा सन्तमसावृतेऽपवरके घटः, न च चैतन्यं घटे पश्चादप्युपलभ्यते तत्कथं तत्तत्रानभिव्यक्तमिति शक्यं वक्तुं, अन्यथा द सर्वत्रानभिव्यक्तमस्तीत्यपि स्यादिति । अत्र पराभिप्रायमाशङ्कमान आह–'देहावत्थाएँ अह उ उवलंभो त्ति', अथ मन्येथाः 'तुः' पूरणे, देहावस्थायां चैतन्यस्योपलम्भोऽस्तीति, इदमुक्तं भवति-त एव घटपरमाणवो यदा देहाकारेण परिणमन्ते तदा चैतन्यस्योपलम्भोऽस्तीति । अत्रोत्तरमाह-'तेहिंतो सोऽसिद्धो' 'तेभ्यो देहावस्थाभाविभ्यो भूतेभ्यः 'स' चैतनस्योपलम्भोऽसिद्धः । कथमिति चेत्, अत आह-भणितमिदं प्रबन्धेन, 'तम्हा न भूयधम्मो चेयन्नं नो य तस्समुदयस्से'त्यादिना ग्रन्थेन । तस्मान्न तत्रानभिव्यक्तं चैतन्यं न च तत्तत्रोपलभ्यत इति तत्र तद-18 भावान्न दृष्टान्तः साध्यविकलः ॥ ८९ ॥ इह 'भूतेभ्यः कायाकारादिपरिणतेभ्यश्चैतन्य मित्यत्र सूत्रे केचिदभिव्यज्यत Ix॥४९॥ इति क्रियाभिसंबन्ध प्रतिपद्यन्ते, अन्ये तु प्रादुर्भवतीति । अभिव्यक्तिवादिनश्च घटादिष्वनभिव्यक्तं चैतन्यमभिन्यन्ते, इतरे त्वनुत्पन्नं, तत्राभिव्यक्तिवादिनः प्रति दृष्टान्तस्य दोषमपहाय अनुत्पन्नवादिमतमाशङ्कमान आह Jain Education Intern For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy