________________
संग्रहणिः
॥१२८॥
ङ्गगम्या, तदुक्तम्-"शक्तिः कार्यानुमेया स्यादिति, कार्यं च दाहलक्षणं शुष्कन्धनादावेव दृश्यते न तु सर्वस्मिन्नपि जगति, ततः कार्यभावाभावदर्शनान्यथाऽनुपपत्त्या व्यवस्थाप्यमाना पूर्वोक्तखभावकल्पना अनुमानप्रमाणनिवन्धना, नतु श्रद्धामात्रनिवन्धनेति । आचार्य आह-'सत्तेत्यादि' मूढ !-अतीवस्थूरबुद्धे ! 'एतदपि' दाहकार्यभावाभावदर्शनं सत्तामात्राविशेषात् 'विरुध्यते' सर्वथा नोपपद्यते, तथाहि-सत्तामात्रेण दाहकत्वाभ्युपगमः, सत्तामात्रं च सकलजगदपि प्रति अविशिष्टमिति कथं विवेकेन कार्यभावाभावदर्शनमुपपद्यत इति ॥ २९५ ॥ स्यादेतत् , प्रत्यक्षत एव किंचिदहन किंचिच्चादहन् दृश्यते, तत्कथमुच्यते भावाभावदर्शनं नोपपद्यते इत्यत आह
डाहम्मि णो विगाणं कह घडई सोत्ति ? एत्थ सवेसि ।
एत्थवि पतिणियतो च्चिय तस्स सहावो णिमित्तं तु ॥ २९६ ॥ दाहे प्रतिनियतशुष्कन्धनादिवस्तुविषये न विगानं-न विप्रतिपत्तिस्तस्य प्रत्यक्षत उपलभ्यमानत्वात् , किंतु स दाहः प्रतिनियतवस्तुविषयतया प्रत्यक्षत उपलभ्यमानः कथं घटत इत्यत्र सर्वेषां वादिनां विगानम् , तत्र च यथा भवदभ्युपगमस्तथा नोपपद्यते, यथोक्तं प्राक् । ननु कथं नोपपद्यते यावता 'अत्रापि' दाहस्य प्रतिनियतवस्तुविषयत्वे 'तस्य' वः प्रतिनियत एव खभावो 'निमित्तं' नियामको विद्यत एव, तुरेवकारार्थः ॥ २९६ ॥ अत्राह
SACROSCORCHASE
॥१२८॥
Jain Education
a
l
For Private & Personel Use Only
A
w w.jainelibrary.org