SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ धर्म॥ १५१ ॥ तस्य पुनर्भेदाभेदानुभवस्य न तेन - विकल्पयुगलानुभवेन वाधा । कुत इत्याह- तदभावे - द्रव्यपर्याययोः केवलभेदाभेदनिरासेन जात्यन्तरात्मकभेदाभेदाभावे तस्य-विकल्पयुगलानुभवस्याभावात् । तथाहि अयं विकल्पयुगलानुभवः प्रदीघनुस्यूतरूपोऽनुभूयते तच्च प्रदीर्घानुस्यूतरूपत्वं न तस्यैव तथापरिणमनमन्तरेणोपपद्यते, तथापरिणामाभ्युपगमे च द्रव्यपर्याययोर्भेदाभेद एव, अन्यथा परिणामायोगात्, ततो द्रव्यपर्याय भेदाभेदानभ्युपगमे तस्यैव प्रदीर्घानुस्यूतरूपविकल्पयुगलानुभवस्याभावो भवति । ननु कथमेष प्रदीर्घानुस्यूतरूपो विकल्पयुगलानुभवो न तस्यैव तथापरिणमनमन्त| रेणोपपद्यते येन द्रव्यपर्याययोर्भेदाभेदानभ्युपगमे तस्यैवाभावः स्यादित्यत आह- 'एगंतेत्यादि' सः - प्रदीर्घानुस्यूतरूपविकल्पयुगलानुभवाभावः प्रागेव एकान्तनित्यपक्षे 'एवं अणुहवसिद्धो घडपडसंवेदणादिभेदोवि' इत्यादिना ग्रन्थेन, एकान्तानित्यपक्षे च 'णणु सो विणस्सरोचिय" इत्यादिना भावित एवेति नेह पुनर्भाव्यते तन्न भेदाभेदानुभवस्य तेन विकल्पयुगलानुभवेन बाधा, तथा च सत्यसाववाधितबोधत्वात्प्रमाणं प्रमाणत्वाच्च तत्सिद्धो भेदाभेदः सुसिद्ध | इति । यत्पुनरुक्तं - ' यस्मिन्निवर्त्तमाने यन्न निवर्त्तते तत्ततो भिन्नमित्यादि, तदप्ययुक्तम्, तुल्ययोगक्षेमताया अभेदव्यापकत्वासिद्धेः, तस्यास्तन्निबन्धनत्वाभावात् तद्धितस्य व्यापकं यदन्वयव्यतिरेकौ यदनुकरोति, न चाभेदस्तुल्ययोगक्षेमताया अन्वयं व्यतिरेकं वाऽनुकरोति, व्यभिचारदर्शनात्, तथाहि - यथा विवक्षिते क्षणे घटक्षण उत्पद्यते तथा कश्चित्पटक्षणोऽपि यथा च तदुत्तरे क्षणे घटक्षणो निवर्त्तते तथा सोऽपि पटक्षणः, न चैवं तुल्ययोगक्षेमतायामपि Jain Education International For Private & Personal Use Only संग्रहणि ॥ १५१ ॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy