________________
Jain Education Inte
तयोरभेद इति नासावभेदनिबन्धनम्, संतानापेक्षया तुल्ययोगक्षेमता अभेदनिबन्धनं न क्षणापेक्षयेति चेत्, तदप्यसा-रम्, तत्रापि तस्यास्तन्निबन्धनत्वासिद्धेर्व्यतिरेकाभावात्, तथाहि - ज्ञानसंताने घटमवलोकयतो घटसारूप्यमुत्पद्यते, पटमवलोकयतश्च तन्निवर्त्तते पटसारूप्यमुत्पद्यते, अथ चेत्थं तुल्ययोगक्षेमत्वाभावेऽपि ज्ञानसंतानघटसारूप्ययोरभेदोऽस्ति, तन्न क्षणापेक्षया संतानापेक्षया वा अभेदस्तुल्ययोगक्षेमतानिबन्धन इति न सा व्यावर्त्तमाना अभेदं व्यावर्त्तयितुमीष्टे, तस्यास्तं प्रति व्यापकत्वायोगात् । यदि नाभेदस्तुल्ययोगक्षेमतानिबन्धनस्तर्हि किंनिबन्धन इति चेत् | उच्यते - अन्योऽन्यानुवेधनिबन्धनः, न चात्रातिप्रसङ्गादिदोपसंभवः, तथाऽनुपलम्भात्, स चान्योऽन्यानुवेधो द्रव्यपर्याययोरप्यस्तीति नाभेदक्षितिः, द्वितीयपक्षस्त्वनभ्युपगमादेव न नः क्षितिमावहति ॥ ३४६ ॥ संप्रति प्रकारान्तरेण | भेदाभेदपक्षे दोषाभावमभ्युच्चेतुमाह-किंच
धम्मे नियत्तमाणे नियत्तए इह कहंचि दव्वंपि ।
तमय अणियत्तंते ण णियत्तति सबहा सोऽवि ॥ ३४७ ॥
किंचेत्यभ्युच्चये । धर्मे पर्याये निवर्त्तमाने द्रव्यमपि कथंचित्तत्संबन्धिरूपतया निवर्त्तत एव तस्मिंश्च द्रव्ये अनिवर्त्तमाने सोऽपि - धर्मः पर्यायः सर्वथा -- निरन्वयतया न निवर्त्तते, तस्याप्यन्ययमात्रस्य द्रव्याभेदिरूपतया अनुवर्त्तमान
For Private & Personal Use Only
ww.jainelibrary.org