SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ननु विकल्पयुगलस्यापि भवदुक्तस्यानुभवं मुक्त्वा किमन्यत् प्रमाणभावः प्रामाण्यं ?, नैव किंचित् , किंतु स एवा-18 नुभव इति भावः, स चानुभवो भवतोऽप्रमाणम्, ततश्च तदनुभवस्यापि-भवदुक्तविकल्पयुगलानुभवस्यापि एवं भेदाभेदानुभवस्येवाप्रमाणत्वे सति किं तेन-विकल्पयुगलकेनोपन्यस्तेन?,अप्रमाणस्य साधकबाधकभावानुपपत्तेः॥३४४॥ तहवि य पमाणभावो जइ तस्सितरस्स णेति का जुत्ती ? । अह उ अवाहियबोधत्तणं न इयरेण बाधातो ॥३४५॥ तथापि-अनुभवरूपत्वाविशेषेऽपि यदि तस्य-भवदुक्तविकल्पयुगलानुभवस्य प्रमाणभावो नत्वितरस्य-भेदाभेदोभयानुभवस्य तर्हि 'इति' एवं कल्पनायां का युक्तिः१, नैव काचित् , किंत्विदं वचनमात्रमेवेतिभावः। अथोच्येत अवाधितबोधत्वमेव युक्तिः, तथाहि-न विकल्पयुगलानुभवसंबन्धी बोधः-परिच्छेदः केनाप्यपाकर्तुं शक्यते, तस्मादसौ प्रमाणमेव । एतत् प्रतिषेधति-'नेति' यदेतदुक्तं तन्न । कुत इत्याह-इतरेण-भेदानुभवेन तस्य विकल्पयुगलानुभवस्य बाधातः-बाध्यमानत्वात् ॥ ३४५॥ तस्स तु ण तेण बाधा तदभावे तस्स चेवऽभावाओ। एगंतनिच्चऽनिच्चम्मि भाविओ चेव सो किंच ॥ ३४६ ॥ धर्म. २६४ ANSLCCCCCCUSACADERX SCSCALCONCANCIES- 4 Jain Education Inter For Private & Personel Use Only 57 Tww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy