SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ॥१८२॥ इह-जगति तस्य-उत्पाद्यस्य घटादेरुत्पत्ती हेतुस्तत्स्थः-उत्पाद्यघटादिस्थः तथाभवनखभावतालक्षणोऽस्ति । चो संग्रणित यस्मादर्थे । यस्मात् घटादिकमुत्पद्यते, विषयेण विषयिणो लक्षणात् उत्पद्यमानं दृश्यते, न तु खरविषाणस्य तत्स्थो हेतुरस्ति, विवक्षितकारणानन्तरं तदुत्पादादर्शनादिति, अस्त्वेवं भेदसिद्धिः, सुयुक्तियुक्तत्वादिति चेत् । अत आह-'ता कह णु इत्यादि' यद्येवं भेदसिद्धिरिष्यते ततः कथं नु एषः-उत्पाद्यो घटादिको भावोऽनुत्पत्तिखभाव इति प्राज्ञा भवादशा व्यपदिशन्तीति ॥ ४५२ ॥ तृतीयं पक्षमधिकृत्याह उभयसहावत्तम्मि उ विरोहदोसोऽणिवारियप्पसरो। इतरम्मिवि उप्पातो अभावतो चेव नो जुत्तो ॥ ४५३ ॥ उभयखभावत्वे तु अङ्गीक्रियमाणे विरोधदोषोऽनिवारितप्रसरः प्राप्नोति, तथाहि-यदि उत्पत्तिखभावं कार्य कथम-18 नत्पत्तिखभावं?, अथानुत्पत्तिखभावं कथमत्पत्तिखभावमिति?, एकस्य विरुद्धधर्माध्यासायोगात । कथंचित योगेऽपि men है स्वकृतान्तप्रकोपात् । चरमपक्षं दूपयितुमाह-इतरस्मिन्नपि-अनुभयखभावत्वे तथाभूतस्य वस्तुनोऽभावान्नोत्पादो युक्त इति ॥४५३॥ अत्र पर आह SORRORSCORRECOLOGIENCE For Private Personal use only
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy