________________
CONCREASEA5545405
अह सो न तस्स हेऊ इतरस्स उ केण हेउत्ति ? ॥ ४५०॥ अथ भावहेतुरनुत्पत्तिस्वभावं सन्तं भावं करोतीतिपक्षः। नन्वेवं तर्हि स हेतुः खरविषाणमपि कुर्यात् , उभयोसरप्यनुत्पत्तिखभावत्वाविशेषात् । अथोच्यत-न स विवक्षितो भावहेतुः खरविषाणस्यापि हेतुः, किंतु भावस्यैव, ततो
न कश्चिद्दोष इति । अत्राह-इतरस्यापि-विवक्षितभावस्य केन कारणेन स विवक्षितो हेतुर्भवति?,न केनापि कारणेन हेतुर्भवितुमर्हतीति भावः॥४५०॥ कुत इत्याह
जमणुप्पत्तिसहावा खरसिंगघडादओऽविसेसेण ।
__ता एगस्साऽहेऊ सेसाणवि, भेयसिद्धी वा ॥ ४५१ ॥ यत्-यस्मादविशेषेणानुत्पत्तिखभावाः खरशृङ्गघटादयः'ता' तस्मात् यद्येकस्य खरविषाणस्याहेतुस्तर्हि शेषाणामपि -घटादीनामहेतुरेव । भेदसिद्धिर्वेति-उत्पत्त्यनुत्पत्तिलक्षणखभावभेदसिद्धिा परस्परं खरशृङ्गघटादीनां सा प्रसज्यते ॥४५१॥ तथाहि
तस्सत्थि इहं हेऊ तत्थो उप्पजते य ता कह णु ? । एसोऽणुप्पत्तिसहावगो त्ति पन्ना ववइसंति ॥ ४५२ ॥
Jain Education inte
For Private & Personel Use Only
www.jainelibrary.org