________________
Jain Education Int
किं न वियप्पेवं भेदाभेदुब्भवा दोसा ? ॥ २४५ ॥
एते क्रियाशब्दा उत्पादनाशादय 'उपचरितार्थाः' कल्पितार्थाः, न खलु वस्तूनां तदतिरिक्ता काचिक्रियास्ति यन्निवन्धना एते क्रियाशब्दाः पारमार्थिका भवेयुः, ततो न कश्चिदिह पूर्वोक्तदोषावकाश इति । अत्रोत्तरमाह - 'इयरेसिं' इत्यादि, यद्यप्येते क्रियाशब्दा उपचरितार्थाः - कल्पितास्तथापि इतरयोः - नाशोत्पादयोः प्रतिप्राणिप्रत्यक्षप्रमाणसिद्धत्वेनाप्रतिक्षेपार्हयोस्तुल्यकालत्वेनाभ्युपगतयोर्वस्तुस्थित्या कारणकार्याभ्यां सह भेदाभेदोद्भवान् दोषान् किन्नैवमुपदर्शितप्रकारेण विकल्पयसि ? - खदर्शनकल्पितकुविकल्पतामपहाय सूक्ष्मबुद्ध्या पर्यालोचयसि । एतदुक्तं भवति - यद्यपि कयाचिदपि स्वमतिकल्पनया क्रियाशब्दानामुपचरितार्थत्वाभ्युपगमः, तथापि नाशोत्पादौ तावत्प्रतिपाणि प्रत्यक्षेणोपलभ्येते, तौ च तुल्यकालावभ्युपगतावतस्तद्विषया भेदाभेदोद्भवा दोषाः कथं परिहर्तुं शक्यन्त इति ? सूक्ष्मधिया | निभालनीयमेतत् ॥ २४५ ॥ पुनरप्यत्र परमाशङ्कते -
अह उ खट्टितिधम्मा भावो णासोत्ति णणु तदद्वाए । कादम्मि पुणो स एव पुवोदितो दोसो ॥ २४६ ॥
तुशब्दोऽवधारणार्थे भिन्नक्रमश्च । अथ मन्येथाः - क्षणस्थितिधर्म्मा भाव एव नाशो न तु तदन्यः कश्चित्
For Private & Personal Use Only
www.jainelibrary.org