________________
धर्म
॥११४॥
Jain Education In
तदुक्तम् - "क्षणस्थितिधर्म्मा भाव एव विनाश"इति, तत्कथमिह भेदाभेदकल्पना युक्तिसंगतेतिभावः । अत्राह - 'णणु इत्यादि' नन्वेवमपि तदद्धाय-नाशाद्धायां कार्योत्पादे तुलानामोन्नामवदिति दृष्टान्तवलेनेष्यमाणे पुनरपि स एव पूर्वोदितो हेतुफलयौगपद्यप्रसङ्गलक्षणो दोपः प्राप्नोति । तथाहि - कारणनाशाद्धायां कार्योत्पादाभ्युपगमः, कारणनाशश्च कारणभाव एव तथा चानयोयौगपद्यप्रसङ्ग इति, तस्मान्नैतदपि कल्पनं समीचीनम् ॥ २४६ ॥ पुनरपि |परमतमाशङ्कय दूषयति
अह धम्मधम्मभावो एसो परिकप्पितो तु णातवो । उभयाभावाओ णु एवंपि ण हेतुफलभावो ॥ २४७ ॥
अथ एष धर्मिधर्म्मभावः कारणतन्नाशादिलक्षणः परिकल्पित एव - अपारमार्थिक एव ज्ञातव्य इति ब्रूषे । तुरवधारणार्थः । नन्वेवमपि न तत्त्वतो हेतुफलभावः, कुत इत्याह- 'उभयाभावात्' कल्पितस्य परमार्थतोऽसत्त्वेनोभयस्यापि धमिधर्म्मलक्षणस्याभावात् न च धमिधर्म्मव्यतिरिक्तं किंचिद्वत्वस्ति यत् हेतुः फलं वा भवेदिति ॥२४७॥ अह धमधम्मभावो एत्थं परिकपितो ण पुण धम्मी । ण हि सो सहावविकलो सति धम्मे तस्स कह भावो ! ॥ २४८ ॥
For Private & Personal Use Only
संग्रहणिः
॥११४॥
www.jainelibrary.org