________________
अथोच्येत-अत्र धमिधर्मभावः कारणं तद्विनाशः कार्य तदुत्पाद इत्येवंरूपः परिकल्पितो न पुनर्धर्म्यपि कारणलक्षणः, तस्मान्न पूर्वोक्तो हेतुफलभावाभावरूपो नो दोषः प्रसज्यते इति। अत्राह-'नहीत्यादि' न हि धर्मी कारणलक्षणः कार्यलक्षणो वा स्वभावविकलो भवति,तथानुपलम्भात् , यदि पुनः खभावविकलत्वं भवेत् ततः सति तस्मिन् खभावविकलत्वे तस्य-कारणस्य कार्यस्य च भावः-खरूपं कथं भवेदितिभावः । खभावविकलत्वे सति खरविषाणस्येव तस्य तदनुपपत्तेः । खभावाभ्युपगमे च खभावस्य धर्मत्वात् दुःशकः पारमार्थिको धमिधर्मभावोऽपाकर्तुमिति । स्यादेतत् , सकलसजातीयविजातीयव्यावृत्तं निरंशमेवैकं स्खलक्षणं पारमार्थिकम् , व्यावृत्तयश्च परिकल्पिताः, ताश्च भेदान्तरप्रतिक्षेपविवक्षायां भिन्ना इव परतन्त्रतया निहिश्यमाना धर्मा इति व्यपदिश्यन्ते, तस्माद्धर्मधमिभाव एव कल्पितो न तु धम्मी, तन्न कारणस्य कार्यस्य वाऽभावप्रसङ्गः, तथा च सति यदि पूर्व खलक्षणं विशिष्टं प्रतीत्योत्तरं खलक्षणमुत्पत्स्यते ततः को नो दोष इति ॥ २४८॥ एतदेवाशङ्कमान आह
सिय कारणं विसिट्टे पडुच्च उप्पज्जते य कजंपि । एस पडुच्चुप्पादो सहावसिद्धो मुणेयवो ॥ २४९ ॥ तं णाम पडुच्चिज्जइ जं उवगारिं तयं तु किं कुणइ ? ।
धर्म.२० in Education
For Private Personel Use Only
prary.org