________________
धर्म
॥११५॥
Jain Education Int
किं तदभावविणासं किं तं उभयं अणुभयं वा ? ॥ २५० ॥
स्यादेतत्-इह विशिष्टं प्रतीत्य कार्यमुत्पद्यते, एष च प्रतीत्योत्पादः स्वभावसिद्धो ज्ञातव्यः, तथाहि स हेतुफलयोः स्वभावो येन तदेव तस्यैव हेतुः फलमपि च तदेव तस्यैव भवतीति । अत्र दूषणमाह - ' तन्नामेत्यादि' तन्नाम प्रतीयतेआश्रीयते अपेक्ष्यते यदुपकारि भवति । यदाह भवदाचार्य :- " उपकारीत्यपेक्ष्यः स्यादिति" । 'तत्' पुनर्निरंशं स्खलक्षणं किं करोति ?, किं ' तदभावविनाश' कार्याभावविनाशं, किंवा 'तत्' कार्य, किंवा 'उभयं' कार्य कार्याभावविनाशं च 'अनुभयं वा' उभयाभावमिति, विकल्पचतुष्टयं गत्यन्तराभावात् ॥ २४९-२५० ॥ तत्राद्यं विकल्पमधिकृत्याहभावविणा अगो उस तुम्ह इट्ठोत्ति ।
करणेऽवि य अविरोहो जेणऽन्नो तस्स णासोति ॥ २५९ ॥
नो 'तदभावविनाश' कार्याभावविनाशं प्राक्तनं निरंशं खलक्षणं करोति । तुर्यस्मादर्थे । यस्मादहेतुकः 'स' विनाशो युष्माकमिष्टः "अहेतुत्वाद्विनाशस्येति” वचनात्, तत्कथमेष तेन खलक्षणेन क्रियते इत्यभ्युपगम्यते ?, 'करणेऽपि च' निर्वर्तनेऽपि च कार्या भावविनाशस्याभ्युपगम्यमाने 'अविरोधो' नैव कश्चिद्विरोधः कार्याभावेन सहेति गम्यते । कथमविरोध इत्याह-येन कारणेनान्यः - अर्थान्तरभूतस्तस्य - कार्याभावस्य नाशः, अनर्थान्तरभूते हि तस्मिन् क्रियमाणे स एव कार्याभावः कृतः स्यात् स च प्रागेवास्तीति किं तेन कृतमिति ॥ २५९ ॥ यद्यविरोधस्ततः किमित्याह
For Private & Personal Use Only
संग्रहणिः
॥११५॥
www.jainelibrary.org