SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ NROESSESEX तदभावे य अणढे कह तब्भावो ? सयं च किं न भवे ? । अ(ण)त्थित्तम्मि य (जं) तस्स अत्थित्तं होइ इतरस्स ॥ २५२ ॥ 'तदभावे च' कार्याभावे चानटे भिन्नत्वेनाविरोधे सति नाशेन कार्याभावस्य नाशयितुमशक्यत्वात्कथं तद्भावः कार्यः १. नैवेत्यर्थः, अभावेन क्रोडीकृतत्वात् , पूर्वकालवत् । अभ्युपगम्यापि विरोधदोपमाह-'सयं चेत्यादि' खयं चकारणव्यापारनिरपेक्षं च तत्कार्य किन्न भवेत् ?, भवेदेवेति भावः । यस्मात्तस्य-कार्याभावस्याकारणकृतेन नाशेन सह | विरोधान्नास्तित्वे सति इतरस्य-कार्यस्य सामर्थ्यादस्तित्वं भवत्येव, भावाभावयोरेकतरप्रतिषेधस्यापरविधिनान्तरीयकत्वात् , तथा च सति तत्कार्य निर्हेतुकमेव स्यात्, कारणस्य तदभावनाशे व्यापृतत्वान्न तदुत्पादे, निर्हेतुकत्वे च सदा भावाभावप्रसङ्गो "नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणादिति" न्यायात, न चैतदिष्टमिति यत्किंचिदेतत ॥ २५२ ॥ अत्र परस्य मतमाशङ्ककमान आह __ अह कारणं चिय तउ ण तु अण्णो कोइ माणविरहातो। तं पुण कुणइ तयं चिय तहासहावातो भणियमिणं ॥ २५३ ॥ अथ मन्येथाः-नैवान्यः कश्चित्कार्याभावस्तत्साधकप्रमाणाभावात् , किंतु कारणमेव, तच पुनः कारणं करोति तदेव Jain Education Inter For Private & Personel Use Only A Mw.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy