________________
साहेति य वइरित्तो जो सो जीवोत्ति पावेति ॥ ८१ ॥ 'एवमपि' अस्यामपि कल्पनायां भूतसमुदायव्यतिरिक्तगतैव तुरेवकारार्थःचेतना कार्य साधयतीति प्राप्तम् । तथाहि-यथा मदशक्तिः खोपादानव्यतिरिक्तपानकगता सती खकार्य साधयति न खोपादान एव, तथादृष्टत्वात्। तथा चेतनापि तदृष्टान्तावष्टम्भेन खोपादानपृथिव्यादिभूतसमुदयव्यतिरिक्तपदार्थान्तरगता सती खकार्य साधयेत् , न खोपादान एव भूतसमुदायमात्रे इति । साधयति चेति चकारो भिन्नक्रमो यश्चेत्येवं द्रष्टव्यः । यश्च व्यतिरिक्तः सोऽन्यस्यासंभवाजीव एव प्राप्नोति । तथा चास्यामपि कल्पनायां सिद्धं नः समीहितमिति ॥८॥ अत्र पर आह
___णो मजसत्ति मजंगहेतुसमुदायभिन्नवत्थुगता।
___ साहइ इह णियकजं ण पाणगो जं ततो अण्णो ॥ ८॥ न मदशक्तिर्मद्याङ्गानि-धातक्यादीनि उपादानकारणानि, हेतवश्च पानको विशिष्टौ च देशकालौ, तेषां समुदायात् यद्भिन्नं वस्तु तद्गता सती 'इह' लोके साधयति निजं कार्य, खोपादानहेतुसमुदायान्तर्गत एव वस्तुनि । एतदेव समर्थयते-'यत्' यस्मान्न पानकः, 'ततः' 'तस्मात्खोपादानहेतुसमुदयाद् 'अन्यो' व्यतिरिक्तः । इदमत्र हृदयम्-यथा मदशक्तिर्न खनिमित्तकलापादन्यस्मिन् खकार्य साधयति, किंतु तदन्तर्गत एव वस्तुनि, तथा चेतनापि तदृष्टान्तावष्ट
Jain Education in
For Private & Personel Use Only
X
ww.jainelibrary.org