________________
**********
| संग्रहणि.
॥४५॥
**
जीवस्स तु मयसत्ती पाणगपक्खम्मि मजसंजोगे।
जायइ मजंगेहिंतो णातमसंगतं तेणं ॥७९॥ पानकपक्षे हि आश्रीयमाणे "मजंगेहिंतोत्ति" मद्याङ्गेभ्यो धातक्यादिभ्यो यत्समुत्पद्यते मद्यं सुरादि तेन सह संयोगे सति जीवस्यैव, तुरवधारणे, मदशक्तिर्भवतीत्यभ्युपगतं स्यात् । तेन कारणेन मद्याङ्गेभ्यो मदशक्तिरिवेति 'ज्ञातम्' उदाहरणमसंगतम् , साधनविकलत्वात् , पानकसापेक्षत्वेन केवलमद्याङ्गसमुदायमात्रात्मदशक्त्यभावादिति ॥७९॥
उक्खिवणपेरणादी सत्ती जह एत्थ देवदत्तस्स ।
कुंभादुक्खिवणगया दीसति तह मजसत्तीवि ॥ ८० ॥ उत्क्षेपणप्रेरणादिका शक्तिर्यथा देवदत्तस्य संवन्धिन्यपि सती कुम्भाधुत्क्षेपणगता दृश्यते तथा मदशक्तिरपि मद्याङ्गसमुदयविशेषात्मकमद्याश्रिता सती पानकगता दृश्यते, तेन यथा उत्क्षेपणादिका शक्तिः पुरुषस्य संबन्धिनी सती कुम्भाधुत्क्षेपणगतापि दृश्यमाना कुम्भादेरियं न पुरुषस्येति न शक्यते वक्तुं, तथा मदशक्तिरपि पानकगतापि दृश्यमाना पानकस्येयं न तु मद्यस्येति न शक्यं वक्तुं, ततो न ज्ञातमसंगतम् , साधनविकलत्वाभावादिति ॥ ८॥ अत्राह
एवंपि भूतसमुदयवइरित्तगता तु चेयणा कजं ।
-SCRACCOUNCSC
॥४५॥
Jain Education intml
For Private & Personel Use Only
Haww.jainelibrary.org