________________
तम्हा पइन्नहेऊदिटुंता तिन्निवि अजुत्ता ॥ ७७॥ न च 'इह' जगति जीवं विना मद्याङ्गेभ्यो मदशक्तिः 'युज्यते' घटते तथाप्रतीत्यभावात् । ततो मद्याङ्गेभ्यो मदशतिरिवेति दृष्टान्तस्तद्भावे भावादिति साधनविकलः, केवलमद्याङ्गसमुदयमात्रान्मदशक्त्यनुपपत्तेः । उपसंहरतितस्मादेते त्रयोऽपि प्रतिज्ञाहेतुदृष्टान्ता अयुक्ता द्रष्टव्या इति ॥ ७७ ॥ दृष्टान्तमेवाश्रित्य दूषणान्तरं समुच्चेतुमाह
किंचेयं मदसत्ती किं मजे पाणगे तदाधारे ?।।
मजेज सयं मजं जइ तम्मि उढिगाधारे ॥७८॥ किंचेत्यभ्युच्चये । इयं दृष्टान्तत्वेनोपन्यस्ता मदशक्तिः किं 'मद्ये' सुरादिरूपे, उतश्चित् पानके आहोखित् तस्य मद्यस्य आधारे उष्ट्रिकादाविति विकल्पत्रयं, गत्यन्तराभावात् । तत्राद्यं विकल्पमधिकृत्याह-'मजेजेत्यादि' यदि तस्मिन् मद्ये मदशक्तिर्भवतीत्यभ्युपगम्यते तर्हि तदेव मद्यं स्वयं पानकादिनिरपेक्षं खरूपेण मायेत् मदशक्तियोगात्, न च माद्यति तथाऽनुपलम्भात् , तन्नायं पक्षः श्रेयान् । तदाधार इति विकल्पस्तत्राप्याह-'उष्ट्रिकाधार' इति आधारे यदीप्येत मदशक्तिस्तत उष्ट्रिका स्वयं मायेत, तस्या मद्यं प्रत्याधारत्वात्तत्र च मदशक्त्यभ्युपगमात् ॥७८॥ अथैतदोष|भयात्पानक इति पक्षकक्षीकारस्तदप्ययुक्तम् , दृष्टान्तस्य साधनविकलतापत्तेः, तथा चाह
Jain Education
For Private & Personel Use Only
||www.jainelibrary.org