________________
संग्रहणि
॥१०॥
अह अण्णे सुखदुक्खे अण्णे आतत्ति अणुहवो कस्स।
आबाललोगसिद्धो ? तप्पडिबिंबातो तस्सेव ॥ २१४ ॥ अथ मन्येथाः-अन्ये एव सुखदुःखे अन्यश्चात्मा तत्कथं सुखादियोगान्यथानुपपत्त्या आत्मनः परिणामित्वमापद्यत इति ? । अत्राह-'अणुहवो इत्यादि,' यदि सुखदुःखाभ्यामेकान्तेनान्य एवात्मा स्यात्तर्हि योऽयमावाललोकसिद्धः सुखदुःखयोरनुभवः स कस्य स्यात् ?, नैव कस्यचिदिति भावः, आत्मनोऽनभ्युपगमात् , अन्यस्य चाचेतनत्वेन घटादेरिव तदभावात् । पर आह-'तप्पडिविवाओ तस्सेव' तयोः-सुखदुःखयोः प्रतिबिम्बात्तस्यैवात्मनः सुखाद्यनुभवो नान्यस्येति नानुभवविरोधः ॥ २१४ ॥ अत्रैव दृष्टान्तमाह
फलिहमणिस्सालत्तग-जोगातो रत्तयत्व एयंपि।
तस्सेव तहापरिणाम-विरहतो सवहा जुत्तं ॥ २१५॥ स्फटिकमणिः-उपलविशेषस्तस्य यथा अलक्तकयोगात् रक्तता भवति तथा आत्मनोऽपि सुखादीनां सन्निधानात् तत्प्रतिबिम्बेन तदनुभव इति। अत्र दूपणमाह-'एयंपीत्यादि' एतदपि-प्रतिविम्वं तस्यैव-आत्मनस्तथापरिणाम
॥१० ॥१०॥
Jain Education International
For Private & Personel Use Only
Www.jainelibrary.org