SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ धर्म. १८ सहकारिणः संप्राप्तौ सत्याम् एतत्' प्रतिनियतकालभावि सुखित्वं दुःखित्वं चोपलभ्यमानं युज्यत एव तदभव |नलक्षणस्वभावनिवृत्तौ तदा तद्भवनलक्षणस्य स्वभावान्तर स्योत्पादात्, किंत्वेवमभ्युपगमे सति स आत्मा अनित्यः प्राप्नोति, “अतादवस्थ्यमनित्यतां ब्रूम इति न्यायात्" । न च किमपैति नवेतिलक्षणपक्षद्वयव्यतिरिक्तं पक्षान्तरमस्ति, येन भवतामिष्टसिद्धिः स्यात्, आत्मनश्च क्रमेण सुखादित्वमुपपद्येत, तथा चाह - 'न अस्थि पक्खंतरं अन्नं' । अथोच्येत तस्यात्मन इत्थंभूत एवैकः खभावो येनाऽऽकालं ततस्ततः प्रतिनियतात् लक्चन्दनादेर्विषशस्त्रादेव सन्निधीयमानात् सहकारिकारणात् तदा तदा तस्य तस्य सुखित्वस्य दुःखित्वस्य वा भाव इति, तथा च सति सहकारिसन्निधौ पूर्वस्वभावाविनिवृत्तावपि न पूर्ववत् सुखित्वाद्यभावः, पूर्व तस्य सहकारिणोऽभावात् संप्रति च तस्य भावात्, न च सुखित्वभवनादूर्द्धमात्मनस्तस्य स्वभावस्य निवृत्तिः, सदा तथास्वभावत्वात् न चाऽऽकालं केवलसुखितादिप्रसङ्गः, तथास्वभावत्वादेव, न च वाच्यं कथमित्थमेतदिति, स्वभावस्यापर्यनुयोगार्हत्वादिति । तदेतन्निविडज डिमावष्टब्धान्तःकरणताविलसितं यदित्थमपि परो विरुद्धं भाषते, तथाहि - सुखित्वादिभावेऽपि सति न स स्वभावो निवर्त्तते यः प्रागासीत्, न च तत्स्वभावानिवृत्तावपि तस्याकालं केवलसुखादित्व (सुखित्वादि) प्रसङ्ग इति परस्परव्याहतमेतत् । यदि हि तस्य स्वभावस्यानिवृत्तिः कथमाकालं न सुखित्वादिप्रसङ्गः, तत्प्रसङ्गाभावश्चेत्कथं तत्खभावानिवृत्तिरिति यत्किंचिदेतत् ॥ २९३ ॥ सांप्रतं सांख्यमतमपाचिकीर्षुरिदमाह - For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy