________________
धर्म
॥१०२॥
ननु तस्यात्मनस्तस्मिन् सहकारिणि प्राप्ते अप्राप्ते वा सति सर्वथैकरूपस्य - अप्रच्युतानुत्पन्नैकस्थिरस्वभावस्य एतदेव पर्यायान्तरेण व्याचष्टे -- एकावस्थस्य - नित्यमेकस्वभावस्य सतोऽद्धाभेदोऽपि सहकारिप्राप्यप्राप्तिविशिष्टो न युज्यते, किं पुनः सुखादिभेदः, स पुनर्द्वरापास्त एवेति भावः । इत्येतत्तावत् मध्यस्थेनान्तरात्मना सम्यक् चिन्तय-पर्यालोचय । यद्वा किमत्र चिन्तनेन ?, निश्चितमेतत् एतदपि पूर्वोक्तं 'नणु तं पुत्रमपत्तमित्यादिकं नित्ये आत्मन्यभ्युपम्यमाने सर्वथा न संगतमेव, तथाहि - विवक्षितसहकारिसन्निधानेन सह सुखित्वभवनलक्षणः स्वभाव आत्मनो नित्य इष्यते, ततः सहकारिणोऽपि विवक्षितस्य नित्यं सन्निधानं प्राप्नोति, अन्यथाऽऽत्मनस्तत्स्वभावत्वहानिप्रसङ्गेनानित्यत्वप्राप्तेः तथा च सति कुतः सहकारिप्रात्यप्राप्तिविशिष्टस्याद्वाभेदस्य संभव इति ॥ २११ - २१२ ॥ द्वितीयपक्षमधिकृत्याह -
ress सो सहावो तस्संपत्तीए जुज्जती एतं ।
किंतु अणिच्चो पावs ण यत्थि पक्खंतरं अण्णं ॥ २९३ ॥
अथ तस्य विवक्षितस्य सहकारिणः संप्राप्तौ सत्यां यः सहकार्य प्रात्यवस्थायां स्वभाव आसीत् सोऽपैतीत्यभ्युपगम्यते, अत्राह - 'तस्संपत्तीए इत्यादि,' नन्वेवमभ्युपगम्यमाने सति आत्मनस्तत्संप्राप्तौ तस्य - विवक्षितस्य
Jain Education International
For Private & Personal Use Only
संग्रहणि:
॥१०२॥
www.jainelibrary.org