________________
तब्बोहसहजमणवइजोगाओ कम्महेऊतो ॥ ४३१ ॥ 'तओत्ति'सको विकल्पो न अर्थगतशब्दग्रहणात्तदनुगतः-शब्दप्रतिभासानुगतः, अपित्वेवं-किंतु एवमेव शब्दप्रतिभासानुगतः, एवमेवापि कुतः समुपजायत इति चेदत आह-कर्महेतुकात्तद्बोधसहजमनोवचनयोगात्-कर्मजनितविवक्षितार्थावबोधसहभूतमनोवचनयोगात् । इदमुक्तं भवति-अर्थात्मानः शब्दाः सन्तीयेवमर्थगतशब्दग्रहणान्नासौविकल्पः शब्दाकारानुगत इष्यते, तथाप्रतिभासाभावात् , किंतु तथाविधकर्मविपाकोदयसामर्थ्य हेतु कविवक्षितार्थावबोधसहसमुद्भूतमनोयोगवचनयोगप्रभावात् , तत्र मनोयोगसामर्थ्यादन्तर्जल्पाकारस्य प्रभवो, वचनयोगसाम-17
र्थ्याच बाह्यशब्दस्य,ततो न कश्चिदिह पूर्वोक्तदोषावकाशः। नहि घटं विकल्पयतः पुंस इत्थं प्रतिभास उदयते यथा| अयं घटः शब्दः शब्दयुक्तो वेति, तथानुभवाभावात् , किंतु अयं घटो घटशब्दवाच्य इति । ततो यदुच्यते-'नह्यर्थे शब्दाः सन्ति तदात्मानो वा, येन तस्मिन् प्रतिभासमाने तेऽपि प्रतिभासेरन्निति, तद्वहिः प्लवते, अर्थगतशब्दग्रहणात्मकशब्दाकारस्य तथाप्रतिभासत्वेनानभ्युपगमात् , तदन्यरूपस्य च शब्दाकारस्य वोधरूपतादिवत् खहेतोरुपजायमानस्य ज्ञानस्यार्थसामर्थ्यजन्यत्वाबाधकत्वात् । यदपि चोक्तं-'न चान्यारशोऽर्थः खकार्यभूते विज्ञाने' इत्यादि,
तदप्यन्धकारननप्रख्यं, वाह्यार्थजन्यतया शब्दाकारस्थानभ्युपगमात्, वाह्यार्थगतरूपग्रहणात्मकतया रूपाकारस्येव 18 वाद्यार्थगतशब्दग्रहणात्मकतया तस्यानुभवाभावात् ॥ ४३१॥
ASAARCCCCCCCCCCX
REGARCASSENGER-RHGAOSALSARS
-
Jnin Education in
For Private & Personal Use Only
Doww.jainelibrary.org