SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ धर्म ॥१७६॥ Jain Education In अथ सः - अवग्रहो निर्विकल्पकापरपर्यायोऽबाधितविषय इति हेतोस्तस्मिन्नवग्रहे रागः । अत्राह -- इतरस्यापि - विकल्पस्य हन्त केन बाधा ?, नैव केनापीत्यर्थः । पर आह- अर्थे शब्दाभावात् तदनुगतत्वाच्च - शब्दानुगतत्वाच्च तस्यविकल्पस्य बाध्यमानविषयता भवतीति शेषः । एतदुक्तं भवति यस्मादर्थादिदमिन्द्रियज्ञानमुदयपदवीं समासादयति तस्यैवार्थस्य रूपमनुकर्तुमुत्सहते, जनकत्वात्, नान्यस्य । तदुक्तम् — “ तद्धि अर्थसामर्थ्यनोदीयमानं तद्रूपमेवानुकुर्या | दिति" । न चार्थे शब्दाः सन्ति, नाप्यर्थात्मानः शब्दाः, येन तस्मिन्नर्थे स्वकार्यभूतविज्ञानादर्शके प्रतिभासमाने अर्थवदनुकारितान्वयव्यतिरेकाः सन्तस्तेऽपि कारणभूताः शब्दाः प्रतिभासेरन् । न चान्यादृशोऽर्थः स्वकार्यभूते विज्ञाने अन्यादृशं प्रतिभासं पुरस्कर्तुमलं यतः कारणस्य जनकत्वं कार्यान्तरात् स्वकार्यस्य भेदकत्वे सति भवति, अन्यथा सर्वस्यापि स्वकारणातिरेकेण कारणान्तरादप्युत्पत्त्या कुत्रचिदप्यन्वयव्यतिरेकानुविधानाभावादहेतुकता स्यात् । तस्मान्नायमर्थः स्वविज्ञानं जनयत् अर्थान्तरसंबन्धिनं प्रतिभासं तत्राधत्ते । तदुक्तम् — “ तस्मादयमुपनिपत्य विज्ञानं जनयन्नानात्मनान्तरीयकं प्रतिभासं पुरस्कर्तुं युक्तो रूपादय इव परस्परमिति” । अर्थान्तरभूतशब्दसंवन्धिप्रतिभासात्मकं चेदं विकल्पज्ञानमतो न बाह्यरूपादिखलक्षणविषयं तज्जन्यत्वाभावात्, अकारणस्य च विषयत्वायोगात् । यदाह - " नाकारणं विषय " इति, अथ च तदध्यवसायि ततो वाध्यमानविषयतेति ॥ ४३० ॥ अत्रोत्तरमाह - अत्थगयसद्दगहणा णो तदणुगतो ततोत्ति अवि एवं । For Private & Personal Use Only संग्रहणिः, ॥१७६॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy