SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Jain Education Int अत्यन्तं भेदात्, दृश्यं हि स्खलक्षणमर्थक्रियासमर्थ सकलसजातीयविजातीयव्यावृत्तं, विकल्प्यं तु सामान्यलक्षणं क्रियाविकलमिष्यते, ततोऽत्यन्तं भेदात् कथमनयोरकीकरणम् ?; एकीकरणनिमित्तस्य साधर्म्यस्यैकान्तेनाभावात् । अथेत्थमत्यन्तं भेदेऽप्येकीकरणमिष्यते, तत्राह -- अतिप्रसङ्गात् नीलविकल्पाकारस्यापि पीतखलक्षणेन सह एकीकरणप्रसङ्गापत्तेः भेदाविशेषात्, तथा च प्रतिनियतसकलव्यवहारोच्छेदप्रसङ्गः । तस्मादव्यवसिततद्भावत्वा देवै कीकरणादि युज्यते नान्यथा । दृश्यं चाविगानेनाध्यवसीयते सजातीयाव्यावृत्तमतस्त तथाभूतमेवाङ्गीकर्त्तव्यम् । तथा च |सति निर्विकल्पमपि यथावस्थितार्थग्रहणस्वभावत्वात् तथारूपमेव तत् गृह्णाति न तूभयविभिन्नमिति स्थितम् ॥ निर्विकल्पक समानतामेव विकल्पस्य प्रकारान्तरेण समर्थयमानोऽभ्युच्चयन्नाह - 'किंचेत्यादि' किंच तं- विकल्पं मुक्तत्वा तुल्ये – समाने अवबोधत्वे - परिच्छेदरूपत्वे सति अवग्रहमात्रे - अवग्रहकल्पनिर्विकल्पकमात्रे को रागः १ आसक्तता भवतो येन तदेवमिष्यते न विकल्पः नैवासौ युक्तो, द्वयोरपि विशेषाभावेनास्य निर्निबन्धनत्वादिति भावः ॥ ४२९ ॥ पराभिमतं विशेषमाशङ्का दूषयति अह सोऽवाहितविसओ इतरस्सवि हंत केण वाधा तु ? | अत्थे सदाभावा तद्गतत्ता य तस्सति ॥ ४३० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy