SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणि ॥१७७॥ ROCKROSASSAMS अह अस्थमंतरेणवि भाषा इसरम्मि किं न सो अत्थि ? । अज्झारोवेण तओ एत्थवि तीतादवेक्खाए ॥ ४३२ ॥ __ अथोच्येत-न विकल्पस्य शब्दाकारानुविद्धतया बाध्यमानविषयता, किंतु कदाचिदर्थमन्तरेणापि भावात् , यदि ह्यर्थनिबन्धनोऽयं विकल्पः स्यात् ततो न कदाचनाप्यर्थमन्तरेण भवेत्, भवति चार्थमन्तरेणापि, यथा-मरीचिकासु जलविकल्पस्तस्मान्नैवासावर्थनिबन्धनः। अत्राह-'इयरम्मि किन्न सो अत्थि' इतरस्मिन्-निर्विकल्पके किन्न सोऽर्थमन्तरेणापि भावोऽस्ति ?, अस्त्येवेतिभावः, कोशांदुकादौ तथादर्शनात् । इतर आह-'अज्झारोपेण तओ' सकोऽर्थमन्तरेणापि निर्विकल्पकभावोऽध्यारोपेण-यः पूर्वमुपलब्धोऽर्थस्तत्समारोपेण, न बर्थमन्तरेणापि उपजायमानमविकल्पकमसन्तानुपलब्धषष्ठस्कन्धविपयमुपजायते, तस्मात्तदप्यर्थनिबन्धनमिति न काचित्क्षितिः । अत्राह-एत्थवि तीयादवेक्खाए' अत्रापि-विकल्पे अतीताधर्थापेक्षया अध्यारोपेण भावः समान एव, नहि विकल्पोऽपि पुरोवर्त्तिनमर्थमन्तरेणोपजायमानः पूर्वानुभूतार्थाध्यारोपमन्तरेणोपजायते इति ॥४३२॥ पर आह तं अन्नत्तविसिटुं समाणमेयं ति एवमाईयं । जं जं निमित्तमिहइं तं तं इतरम्मि बि समाणं ॥ ४३३ ॥ ॥१७७॥ Jain Education For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy